SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ૧૦. ૩૮ ઉવસગ્ગહરે તેત્રને પ્રભાવ દર્શાવનારા લૈકે. उपसर्गहरस्तोत्रं कृतं श्रीभद्रबाहुना ।। ज्ञानादित्येन संघस्य शान्तये मङ्गलाय च ।। एतत्स्तवप्रभावो हि वक्तुं केनाऽत्र शक्यते । हरिणा गुरुणा वा वाक्प्रद्वयाऽप्येकजिह्वया ॥ उपसर्गहरस्तोत्रे स्मृते स्युः शुभसंपदः । संयोगसंततिनित्यं स्युः समीहितसिद्धयः ।। उदयोच्चपदोपाया उत्तमत्वमुदारता । उकाराः पञ्च पुंसां स्युरुपसर्गहरस्मृतेः ।। पुण्यं पापक्षयः प्रोतिः पद्मा च प्रभुता तथा । पकाराः पञ्च पुंसां स्युः पार्श्वनाथस्य संस्मृतौ ॥ उपसर्गहरस्तोत्रमष्टोत्तरशतं सदा । यो ध्यायति स्थिरस्वान्तो मौनवान् निश्चलासनः ।। तस्य मानवराजस्य कार्यसिद्धिः पदे पदे । भवेच्च सततं लक्ष्मीश्चञ्चलाऽपि हि निश्चला ।। (युग्मम् ) प्रत्यक्षा यत्र नो देवा न मन्त्रा न च सिद्धयः । उपसर्गहरस्यास्य प्रभावो दृश्यते कलौ ।। प्राप्नोत्यपुत्रः सुतमर्थहीनः श्रीदीयते पत्तिरपीशतीह । दुःखी सुखी चाथ भवेन्न किं किं त्वद्रपचिन्तामणिचिन्तनेन । एकया गाथायाऽप्यस्य स्तवस्य स्मृतमात्रया । शान्तिः स्यात् किं पुनः पूर्ण पञ्चगाथाप्रमाणकम् ।। उपसर्गहरस्तवनं यञ्चित्ते स्फुरति सततमिह । भूतव्यन्तरयक्षाः प्रत्यक्षाः स्युर्नृणां तेषाम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001510
Book TitleUvassaggaharam stotra Swadhyay
Original Sutra AuthorBhadrabahuswami
AuthorAmrutlal Kalidas Doshi, Subodhchandra Nanalal Shah
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages276
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Stotra, & Occult
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy