________________
२१२ ]
35
"
[ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते दिपरिणामसम्भवे तस्या युक्तत्वात् ; भावलेश्यापेक्षया तु सम्यक्त्वादीनां प्रतिपद्यमानक उपरितनीषु तिसृष्वेव भवति । पूर्वप्रतिपन्नस्तु यथापरिणामं लेश्याद्रव्यान्तरसम्पर्कत उपजायमानायामन्यतरस्यामपि भवति, द्रव्यान्तरसम्पर्कतो लेश्यानां परिणामान्तरस्याभिहितत्वात् । तथा च प्रज्ञापनासूत्रम्- -" से नूणं भंते ! कण्हलेसा णीललेसं पप्प नो तारूवत्ताए नो तावन्नत्ताए नो तागंधत्ताए नो तारसत्ताए नो ताफासत्ताए भुज्जो भुज्जो परिणमइ ? हंता गोयमा ! किण्हलेसा नीललेसं पप्प नो तारूवत्ता जाव परिणमइ । से केणट्ठेणं भंते ! एवं वुच्चइ किहलेसा नीललेसं पप्प जाव णो परिणमइ ? गोमा ! आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया, कण्हलेसा णं सा णो खलु णीललेसा, तत्थगया उस्सक्कइ, से तेणट्ठेणं गोअमा ! एवं बुच्चइ किण्हलेसा नीललेसं पप्प जाव णो परिणमइ । अत्राकार एव भाव आकारभावः, आकारभाव एवाकारभावमात्रा, मात्राशब्दः खल्वाकारभावव्यतिरिक्तप्रतिबिम्बादिधर्मान्तरप्रतिषेधवाचकः, तेनाकारभावमात्रेणासौ स्यान्नीललेश्या न तु तत्स्वरूपापत्तितः । तथा प्रतिरूपो भागः प्रतिभागः- प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमात्रा, अत्र मात्रा शब्दो वास्तव परिणामप्रतिषेधवाचकतया प्रतिभागमात्रयाऽसौ नीललेश्या स्याम्न तु तत्स्वरूपतः, स्फटिक इवोपधानवशादुपधानरूप इति दृष्टान्तः, ततः स्वरूपेण कृष्णले श्वासौ न नीललेश्या, किं तर्हि ' तत्रगतोत्सर्पति ' तत्रगता - तत्रस्था स्वरूपस्थेत्यर्थः, नीललेश्यादिकं लेश्यान्तरं प्राप्योत्सर्पति - आकारभावं प्रतिबिम्बभावं वा नीललेश्यासम्बन्धिनमासादयति । एवम् – “ णीललेसा काउलेसं पप्य जाव णीललेसा णं सा, णो खलु काउलेसा, तत्थगया उसकइ वा ओसकइ वा । " तत्रगता - स्वरूपस्थैवोत्सर्पति - कापोतलेइयासम्बन्धिनं भावमासादयति, अवसर्पति वा - कृष्णलेश्यां प्राप्य तद्भावमासादयतीत्यर्थः । एवं काउलेसा तेउलेसं पप्प, तेउलेसां पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प, एवं सुक्कलेसा पहले पप्प, एवं किण्हलेसा नीललेसं काउलेसं जाव सुक्कलेसं पप्प, एवं इक्किका सव्वाहिं चारिजइ "त्ति । तदेवं चारित्रिणोऽपि प्रशस्तलेश्यावस्थितस्य कर्मगतिवैचित्र्यादध्यवसायोपनीत कृष्णादिद्रव्यसंसर्गेण कृष्णादिसद्भावोऽप्यविरुद्धः, तदिदमुक्तमुत्तराध्ययनवृत्तावपि - " यदप्येषां संयमित्वेऽपि षड्लेश्याभिधानं तदन्याद्यानां भावपरावृत्तिमपेक्ष्य अगारभावमाया वा सिया परिभागमायाए वा सिया " इत्याद्यागमप्रामाण्यादविरुद्धमेवेत्यलं प्रसङ्गेन ” इति । ननु यद्येवं पूर्वप्रतिपन्ने लेश्याषट्रकस्यापि सम्भवस्तदा कथं न पुलाकादौ तदभिधानं कषायकुशील एव च तदभिधानम् ? इति चेत्, अत्र केचित् पूर्वप्रतिपन्नः कषायकुशील एव गृह्यत इत्याहुः, तदुक्तं भगवतीवृत्तौ " सकषायमेवाश्रित्य - " पुण्वपडिवन्नओ पुण अण्णयरीए उ लेस्साए " इत्युक्तमिति संभाव्यत ” इति । इदं पुनरिहावधेयम् - अशुद्ध लेश्यासद्भावे चारित्रिणां प्रमत्तताविशेषस्तत्र न तु कषायकुशीलता, प्रेमद्वेषविशेषरूपत्वादप्रशस्तलेश्यानाम्, तदुक्तं पूज्यपादैः" अविसुद्ध भावलेसा, दुविहा णियमा उ होइ णायव्वा । पेज्जम्मिय दोसम्म य "न्ति । तथा चान्यत्रापि कथं न तत्सम्भवः १, किञ्चान्यस्यापि दशाविशेष आर्त्तरोद्रध्यानसम्भवस्तावदिष्टः, तत्र चाप्रशस्तलेश्यानामेव सम्भव इति, अत एव षडशीतिके – “ छमु सव्व "प्ति प्रतीकेनाविशेषतः षट्सु गुणस्थानकेषु लेश्याषट्रकसम्भव उक्तः, उपपत्तिश्चात्राभिहिता - इह लेश्यानां प्रत्येकमसङ्ख्येयानि 'लोकाकाशप्रदेशप्रमाणान्यव्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया
66
CC
"
८.८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org