________________
१५०
स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते હેવાથી વિપરીત અર્થવાળું છે, ને દરિદ્રનું નામ ધનપાલ હય, તેની જેમ અપજશ ४२॥२०॥ छ. [१] कथं तहिं निम्रन्थनाम्नः सार्थकत्वम् ! का वा निम्रन्थानां प्ररूपणा ? इत्यत आह
दसचउदसविहबज्झन्भंतरगंथा उ जे मुणी मुक्का ।
ते णिग्गंथा तेसिं, पंचण्ह परूवणं वुच्छं ॥२॥ ....... 'दस'त्ति । दशविधः खलु बाह्या ग्रन्थः, तथाहि क्षेत्रं-सेत्वादि १, वास्तु-खातादि २, धनं च-हिरण्यादि, धान्यं च शाल्यादि तयोः सञ्चयः ३, मित्राणि च सहवर्धितादीनि, ज्ञातयश्च स्वजनास्तैः सह संयोगः ४, यानानि-शिबिकादीनि ५, शयनानि-पल्यङ्कादीनि ६, आसनानि-सिंहासनादीनि ७, दास्यः-अङ्कपतिताः ८, दासा अपि तथाविधा एव ९, कुप्यं च विविधगृहोपस्करात्मक १० मिति । चतुर्दशविधश्चाभ्यन्तरो ग्रन्थः, तथाहि--क्रोधःअप्रीतिलक्षणः १, मानः-अहमितिप्रत्ययहेतुः २, माया-स्वपरव्यामोहोत्पादकं शाठयम् ३, लोभः-द्रव्यादिकाङ्क्षा ४, प्रेम-प्रियेषु प्रीतिहेतुः ५, द्वेष:-उपशमत्यागात्मको विकारः ६, यद्यपि प्रेम-मायालोभरूपं द्वेषश्च-क्रोधमानात्मकस्तथाऽपि तयोः पृथगुपादानं कथश्चित् सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थमिति वृद्धाः । मिथ्यात्वं-नास्ति १ न नित्यः २ न करोति ३ कृतं न वेदयति ४ नास्ति निर्वाणं ५ नास्ति निर्वाणोपायः ६ इति षड्भिः स्थानस्तत्त्वार्थाश्रद्धानम् , यदाह सम्मतिकार:-"णस्थि ण णिच्चो ण कुणइ, कयं ण वेएइ णत्थि व्वाणं णत्थि य मोक्खोवाओ, छ म्मिच्छत्तस्स ठाणाई ॥१॥" ७ वेदः-स्त्रीवेदादिनिधा ८, अरतिःसंयमेऽप्रीतिः ९, रतिः-असंयमे प्रीतिः १०, हासः-विस्मयादिषु वक्त्रविकासात्मकः ११, शोकः-इष्टवियोगान्मानसं दुःखम् १२, भयमिहलोकादिभेदभिन्नं सप्तविधम् १३, जुगुप्साअम्नानादिमलिनतनुसाधुहीलना १४ । तदुक्तमुत्तराध्ययननियुक्तौ-"दुविहो अ होइ गंथो, बज्झो अभितरो उ णायव्वो । अंतो अ चोद्दसविहो, दसहा पुण बाहिरो गंथो ॥१॥ कोहे माणे माया लोमे पेज्जे तहेव दोसे य । मिच्छत्त वेद अरती, रति हासो सोग भय कुच्छा ॥ २ ॥ खेत्तं वत्थु धणधण्णसंचओ मित्तणाइसंजोगा । जाणसयणासणाणि य, दासी दासं च कुवियं च ॥३॥" ततो दशविधचतुर्दशविधाभ्यां बाह्याभ्यन्तरग्रन्थाभ्यां ये मुक्ता मुनयस्ते निर्ग्रन्था भण्यन्ते तेषां पञ्चानां प्ररूपणां वक्ष्ये ॥ २॥
આ નિગ્ર"થ નામ સાર્થક શી રીતે થાય? અને નિગાની પ્રરૂપણ શું છે? તે જણાવે છે –
:
બાહ્ય અને અત્યંતર એમ બે પ્રકારે ગ્રંથ છે. બાહ્ય ગ્રંથ આ દશ પ્રકારે છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org