________________
गुरुतरविनिश्वये तृतीयोल्लासः ]
जह वेलंबगलिंगं, जाणंतस्स णमओ धुवं दोसो | णिर्द्धधस त्ति णाऊण वंदमाणे धुवं दोसो ॥ १८५ ॥
'ह'ति । यथा 'विडम्बकलिङ्ग' भण्डादिकृतं 'जानतः ' अवबुध्यमानस्य 'नमतः ' नमस्कुर्वतः सतोऽस्य भवति 'दोष' प्रवचनहीलनादिलक्षणः । 'निद्बन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकं 'इ' एवं ' ज्ञात्वा' अवगम्य 'बंदमाणे धुवं दोसो'त्ति 'वन्दति' नमस्कुर्वति नमस्कर्त्तरि 'ध्रुवः' अवश्यंभावी 'दोष:' आज्ञाविराधनादिलक्षणः । पाठान्तरं वा - - "निद्धंघसं पि नाऊण वन्दमाणस्स दोसो उ" इदं प्रकटार्थमेवेति गाथार्थः || १८५ ।।
જેમ ભાંડ આદિએ પહેરેલા નકલી (સાધુના) વેષને જાણવા છતાં નમસ્કાર કરનારને અવશ્ય પ્રવચનનિંદા આદિ દોષ લાગે છે, તેમ પ્રવચનની અપભ્રાજનાથી નિરપેક્ષ એવા પાશ્વ સ્થાદિકને જાણવા છતાં વંદન કરનારને અવશ્ય આજ્ઞાવિરાધના આદિ દોષા सागे. [१८५]
[ १४५
तथा च कस्यचिद् गुणहेतुत्वेऽपि कूटलिङ्गं वन्दनप्रवृत्तौ सामान्यत एव निषिद्धम्, चित्रातिकामिनीव सतत्त्वभाविनः कस्यचिद् गुणनिमित्तमपि दर्शनप्रवृत्तौ प्रायो दोष हेतुत्वादिति सिद्धम् । ननु यद्येवं पार्श्वस्थादीनां वन्दनप्रवृत्तौ दोष उत्तरतदापवादेन तद्वन्दनमप्ययुक्तं स्यादोषानपायादित्याशङ्कां निराकर्तुमाह---
Jain Education International
अववारण य दोसो, ण णिग्गुणाणं पि वंदणे होइ ।
गुरुलाघव चिंताए एवं दाणाइसु वि णेयं ॥ १८६ ॥
'अववारण य'त्ति' । अपवादेन च निर्गुणानां वन्दनेऽपि गुरुलाघवचिन्तायां न दोषः, तस्या एव दोषप्रतिबन्धकत्वात् । एवं दानादिष्वपि ज्ञेयम्, तथाहि पार्श्वस्थादीनामाहारदानादानयोर शिवादिकारणे पुष्टालम्बनप्रवृत्त्या न दोषः, तदुक्तम् - " असिवे ओमोयरिए, रायदुट्टे भए व गेलने । अद्धाणरोहए वा दिज्जा अहवा पडिच्छिज्जा ॥ | १ || " एवं तेषां वस्त्रादिदानादानयोरपि पुण्यालम्बने न दोषः, तदुक्तम्- इमो अववाओ, गिही अन्नतित्थिओ वा सेहो पव्वकामो तस्स दिज्जइ जत्थ सुलभं वत्थं तत्थ वि विसए अंतरा वा असिवादि हुज्जा, एवमादिकारणेहिं तं विसयमगच्छंतो इह अलभंतो पासत्थाइत्थं गिव्हिज्जा दिना वा तेसिं, अद्वाणे वा वच्चता मुसिआ अन्नतो अलभता पासत्थाइत्थं गिव्हिज्जा, हिमदेसे वा सीताभिभूआ पाडिहारिअं गिरिहज्जा, गिलाणस्स वा अत्युरणादि गिण्हिज्जा, एवमाद ।” तथा कारणे वसत्यादिदानेऽपि न दोषः, यतः कारणेsसाम्भोगिका अपि पार्श्वस्थाः प्रवचने साम्भोगिका उच्यन्ते । साम्भोगिकानां च वसतिमध्ये विद्यमान यो न ददाति तस्य चतुर्लघु, अग्न्यादिना वसत्युपद्रवात् श्वापदादिभयाद्वा शैक्षग्लानाद्यर्थ वाऽध्व प्रपन्ना वा य आगतास्तेषां विद्यमानस्थानादाने चतुर्गुरु प्रायश्चित्तम् । सम्भोगसाधर्मिक वात्सल्यप्रवचनव्युच्छित्तिश्चेति जीतवृत्तावुक्तम् । तथा कारणे पार्श्वस्थादिवाचनादानादानयोरपि न दोषः,
शु. १५
For Private & Personal Use Only
www.jainelibrary.org