________________
गुरुतत्त्वविनिश्चये द्वितीयोल्लास: ]
[२१५ एवं से णो कप्पइ गणं धारित्तए'त्ति । अस्यार्थः-भिक्षुः, चशब्द आचार्य पदयोग्यानेकगुणसमुच्चयार्थः, इच्छेद् गणं धारयितुं 'भगवांश्च' आचा स्तस्य 'अपरिच्छन्नः' द्रव्यपरिच्छदरहितो भावपरिच्छदरहितस्याचार्यत्वायोगात् , चशब्दाद् भिक्षुश्च द्रव्यतोऽपरिच्छदो भावतः सपरिच्छदो गृह्यते । 'एवम् ' अमुना प्रकारेण 'से' तस्य गणं धारयितुं न कल्पते । एवंशब्दो विशेषद्योतनार्थः, स चायम्-आचार्थे द्रव्यतोऽपरिच्छदे भिक्षोः सपरिच्छदस्यापरिच्छदस्य वा न कल्पते उभयोव्यतोऽपि परिच्छन्नत्वे च कल्पत इति । नोकारश्च देशप्रतिषेधे तेनावसन्ने आचार्य तत्परिवारस्य सर्वस्य संविग्नशिष्यस्याऽऽभवनात् कल्पेतापि द्रव्यतोऽपरिच्छन्नस्य, भावतोऽपरिच्छन्नस्य तु सर्वथा न कल्पत इति सिद्धम् । तदुक्तम्-"नोकारो खलु देसं, पडिसेहयति कयाइ कप्पे वि । ओसन्नम्मि य थेरे, सो चेव परिच्छओ तस्स ॥११॥"त्ति । अत्राबहुश्रतेऽगीतार्थे वा गणं निसृजति धारयति चेदं प्रायश्चित्तमुच्यते-"अबहुस्सुए अगीयत्थे, णिसिरए वावि धारए व गणं । तद्देवसिअं तस्स उ, मासा चत्तारि भारिआ ॥१॥ सत्तरत्तं तवो होइ, तओ छेओ पधावइ । छेएण छिन्नपरिआए, तओ मूलं तओ दुगं ॥२॥” अंबहुश्रुतोऽगीतार्थ इति प्रथमो भङ्गः, अबहुश्रुतो गीतार्थ इति द्वितीयः, बहुश्रुतोऽगीतार्थ इति तृतीयः, बहुश्रुतो गीतार्थ इति चतुर्थ इति चत्वारः खल्वेते भङ्गा भवन्ति । तत्र निशीथादिकं सूत्रतोऽर्थतो वा यस्यानवगतं स प्रथमो भगः । यस्य पुनर्निशीथादिगतौ सूत्रार्थों विस्मृतौ स द्वितीयो भङ्गः । यः पुनरेकादशाङ्गधारी अश्रुताथः स तृतीयो भङ्गः । सकलकालोचितसूत्रार्थोपेतश्चतुर्थः । तत्राबहुश्रुतोऽगीतार्थ इत्यनेन भङ्गत्रयमुपात्तम् । एतदन्यतरभङ्गवर्ती गणं निसृजति धारयति वा यदि एक द्वौ त्रीन् वा दिवसानुत्कर्षतः सप्त रात्रिंदिवानि ततः 'तदेवसिकं' तेषां सप्तानां दिवसानां निमित्तत्वतः 'तस्य' गणं निस्रष्टुर्द्धारयितुर्वा प्रायश्चित्तं चत्वारो मासा गुरुकाः। ततः प्रथमसप्तदिनानन्तरमन्यानि चेत् सप्त दिनानि गणं निसृजति धारयति वा स्वयं तदा प्रायश्चित्तं षड्लघु । ततोऽप्यन्यानि सप्त दिनानि यावदनुपरमे षडगुरु । एवं जातावेकवचनात्सप्तरात्रं त्राणि सप्तरात्राणि यावत्तपो भवति । ततस्तपःप्रायश्चित्तसमाप्त्यनन्तरं तपःक्रमेण च्छेदः प्रधावति, तथाहि-सप्तदिनादितश्चतुर्गुरुकच्छेदः । ततोऽप्यन्यसप्तदिवसातिक्रमे पड्लघुकः । ततोऽप्यन्यसप्तदिवसातिवाहने षड्गुरुकः । एतावता छेदेनाच्छिन्ने भूयस्त्वेन पर्याये सति देशोनपूर्वकोटीप्रमाणोऽप्ययमवशिष्यमाण एकदिवसेनैव छिद्यत इत्येवंलक्षणं त्रिचत्वारिंशत्तमे दिने मूलं भवति । ततोऽप्यतिक्रमे चतुश्चत्वारिंशत्तमे दिवसेऽनवस्थाप्यं पञ्चचत्वारिंशत्तमे च पाराश्चितमिति द्विकमन्तिमप्रायश्चित्तद्वयमापद्यत इति व्यवहारवृत्तौ व्यक्तम् । जितकल्पवृत्तौ पुनरत्र त्रय आदेशा लिखिताः-तत्रके लघुपञ्चरात्रिंदिवेभ्यश्छेदं प्रस्थापयन्ति, अपरे गुरुपञ्चरात्रिंदिवेभ्यः; परे च यतः प्रभृति तपःप्रायश्चित्तमुपक्रान्तं तत आरभ्येति । तत्र तृतीयपक्षस्तावत्समर्थित एव । प्रथमपक्षे च सप्तरात्रत्रयानन्तरं तुरीयं सप्तरात्रं लघुपञ्चकश्छेदः, पञ्चमं गुरुपञ्चकः, षष्ठं लघुदशरात्रिंदिवः, सप्तमं गुरुदशरात्रिन्दिवः, अष्टमं लघुपञ्चदशकः, नवमं गुरुपञ्चदशकः, दशमं लघुविंशतिरात्रिन्दिवः, एकादशं गुरुविंशतिरात्रिन्दिवः, द्वादशं लघुपञ्चविंशतिरात्रिन्दिवः, त्रयोदशं गुरुपञ्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org