________________
૧૨૨
सुभाषितसंग्रहसमुच्चय
सूक्तावली
॥
ॐ
'कोऽयं नाथ ?, जिनो, भवेत्तव वशी, नैवं प्रतापी प्रिये !, हुंडं तर्हि ........... शौर्यावलेपक्रियाम् । मोहोऽनेन विनिर्जितः प्रभुरसौ, तत्किङ्कराः के?, वयं, इत्थं यो रति-कामजल्पविषयः सोऽयं जिनः पातु वः ॥१॥ अपायाः प्रतिपद्यन्ते]पुण्यभाजामुपायताम् । सदा प्रसुवतेऽकस्माद्विपदोऽपि हि सम्पदः ॥२॥ विद्युद्योतैरिवाऽपुण्यैराश्लिष्टाः पुष्पिता अपि । भवन्ति निष्फलाः पुंसामाशाश्चुतलता इव ॥३॥ मध्येराजसभं महाजनसभामध्ये वणिग्मन्दिरे मान्यानां सदने धनाधिपगृहे हh तथा मन्त्रिणाम् । विप्राणां श्रमणाश्रमेऽमलधियां मध्ये परेषामपि पूज्याः शीलयुजो भवन्ति मनुजाः सर्वत्र [देवाः इव ॥४॥ किं किं नोपकृतं तेन किं न दत्तं महात्मना । प्रियं प्रसन्नवदनेन प्रथमं येन भाषितम् ॥५॥ सकृदपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतम् । तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् ॥६॥ उपभोगोऽपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् ॥७॥ आत्मा सर्वगतो यदि प्रियतमाविश्लेषदुःखाङ्कितो नित्यश्चेद्विरहज्वरेण महता किं नीयते विक्रियाम् । प्रागासीद् यदि सक्रियोऽयमधुना[किं] निष्क्रियत्वं गतः प्रायो भाग्यविपर्यये मयि मुधा सिद्धान्तसिद्धान्यपि ॥८॥ यात वाऽपि तव स्वान्तं कान्ते ! कार्यं त्वया मम । यदेवाऽर्थक्रियाकारि तदेव परमार्थसत् ॥९॥ अपि चण्डानलोद्भूततरङ्गस्य महोदधेः । शक्यते प्रसरो रोद्धं नाऽनुरक्तस्य चेतसः ॥१०॥
१०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org