________________
૧૧૪
सुभाषितसंग्रहसमुच्चय २०७ महिलानिगडं दत्त्वा न सन्तुष्टः प्रजापतिः ।
भूयोऽप्यपत्यरूपेण ददाति गलशृङ्खलाम् ॥२०७॥ २०८. स्वभावकठिनस्यास्य कृत्रिमा बिभ्रतो नतिम् ।
गुणोऽपि परहिंसायै चापस्य च खलस्य च ॥२०८॥ २०९. वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते ।
कथं स न समानः स्यात् पुच्छेन पिशुनः शुनः ? ॥२०९॥ २१०. न च हसति नाभ्यसूयति न परं परिभवति नाप्रियं वदति ।
नाक्षिप्य कथां कथयति लक्षणमेतत् कुलीनस्य ॥२१०॥ २११. कार्यार्थी भजते लोको न कश्चित् कस्यचित्प्रियः ।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥२११॥ २१२. मनो विशुद्धं पुरुषस्य तीर्थं वाक्संयमश्चेन्द्रियनिग्रहश्च ।
एतानि तीर्थानि शरीरजानि स्वर्गं च मोक्षं च निदर्शयन्ति ॥२१२॥ २१३. अदूषितं नास्ति खलेन किञ्चित् गुणद्विषा दोषसमुत्सुकेन ।
पतिव्रता यन्न करोति जारं सव्याधियोनीति खला वदन्ति ॥२१३॥ २१४. सूक्ष्मं जिनेन्द्रवचनं हेतुभिर्यन्न गृह्यते ।
आज्ञासिद्धं तु तद् ग्राह्यं नान्यथावादिनो जिनाः ॥२१४॥ २१५. परीक्षा सर्वशास्त्रेषु कर्तव्या च विचक्षणैः ।
न कुशास्त्रप्रणीतेन कर्तव्यं विषभक्षणम् ॥२१५॥ २१६. गुणैरुत्तुङ्गतां याति नोच्चैरासनसंस्थितः ।
प्रासादशिखरारूढो न काको गरुडायते ॥२१६॥ २१७. केचिज्जनाः सकलमेव जगत्समस्तं
भर्तुं क(कु)टुम्बमपरे स्वकमात्रमन्ये । अस्मद्विधाः पुनरभ्या(भा)ग्यभुजङ्गदष्टाः
शक्ता भवन्ति न निजोदरपूरणेऽपि ॥२१७॥ २१८. संसारे त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
जडैरुपलखण्डेषु रत्नसंज्ञा प्रकीर्तिता ॥२१८॥ २१९. विषस्य विषयाणां च विदुरत्यन्तमन्तरम् ।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥२१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org