________________
श्रीमद्रराजचन्द्रजैनशास्त्रमालायाम्
[ श्लोकदोहा-मोहकर्मके उदयसे, वस्तुस्वभाव न पात।
__ मदकारी कोदों भखे, उल्टा जगत लखात ॥७॥ इसी अर्थको आगेके इलोकमें स्पष्टरीत्या विवेचित करते हैं
वपुर्गहं धनं दाराः, पुत्रा मित्राणि शत्रवः ।
सर्वथान्यस्वभावानि, मूढः स्वानि प्रपद्यते ॥ ८॥ अन्वय-वपः गृहं धनं दाराः पुत्राः मित्राणि शत्रवः सर्वथा अन्यस्वभावानि, ( किन्तु ) मूढः (तानि ) स्वानि प्रपद्यते।
टीका-प्रपद्यते । कोऽसी, मूढः स्वपरविवेकज्ञानहीनः पुमान् । कानि, वपुर्गृहादीनि वस्तूनि । किविशिष्टानि, स्वानि स्वश्चात्मा स्वानि चात्मीयानि स्वानि । एकशेषाश्रयणादेकस्य स्वशब्दस्य लोपः। अयमर्थःदृढतममोहाविष्टो देहादिकमात्मानं प्रपद्यते. आत्मत्वेनाभ्युपगच्छति । दृढतर मोहाविष्टश्च आत्मीयत्वेन । किंविशिष्टानि सन्ति स्वानि प्रपद्यत इत्याह-सर्वथान्यस्वभावानि सर्वेण द्रव्यक्षेत्रकालभावलक्षणेन प्रकारेण स्वस्वभावादन्यो भिन्नः स्वभावो येषां तानि । कि किमित्याह-वपुः शरीरं तावदचेतनत्वादिस्वभावं प्रसिद्धमस्ति । एवं गृहं धनं दाराः भार्याः पुत्राः आत्मजाः मित्राणि सुहृदः शत्रवोऽमित्राः । अत्र हितवर्गमुद्दिश्य दृष्टान्तः । अत्रैतेषु वपुरादिषु मध्ये हितानाम्पकारकाणां दारादीनां वर्गो गणस्तमुद्दिश्य विषयीकृत्य दृष्टान्त उदाहरणं प्रदर्श्यते । अस्माभिरिति शेषः । तद्यथा
अर्थ-यद्यपि शरीर, घर, धन, स्त्री, पुत्र, मित्र, शत्रु आदि सब अन्य स्वभावको लिये हुए पर-अन्य हैं परंतु मूढ प्राणी मोहनीयकर्मके जालमें फंसकर इन्हें आत्माके समान मानता है।
विशदार्थ-स्व और परके विवेकज्ञानसे रहित पुरुष शरीर आदिक पर पदार्थोंको आत्मा व आत्माके स्वरूप ही समझता रहता है। अर्थात् दृढ़तम मोहके वश प्राणी देहादिकको ( जो कि द्रव्य, क्षेत्र, काल, भाव लक्षणरूप हरेक प्रकारसे आत्मस्वभावसे भिन्न स्वभाववाले हैं ) ही आत्मा मानता है और दृढतर मोहवाला प्राणी, उन्हीं व वैसे ही शरीरादिकको आत्मा नहीं, अपितु आत्माके समान मानता रहता है।। ८॥ __दोहा-पुत्र मित्र घर तन तिया, धन रिपु आदि पदार्थ ।।
बिल्कुल निजसे भिन्न हैं, मानत मूढ़ निजायं ॥८॥ उत्थानिका-शरीर आदिक पदार्थ जो कि मोहवान् प्राणीके द्वारा उपकारक एवं हितू समझे जाते हैं, वे सब कैसे हैं, इसको आगे श्लोकमें उल्लिखित दृष्टान्त द्वारा दिखाते हैं
दिग्देशेभ्यः खगा एत्य, संवसन्ति नगे नगे।
स्वस्वकार्यवशाधान्ति, देशे दिक्षु प्रगे प्रगे ॥ ९॥ अन्वय-खगा. दिग्देशेभ्यः एत्य नगे नगे संवसन्ति, प्रगे प्रगे स्वस्वकार्यवशात् देशे दिक्षु यान्ति ।
टोका-संवसन्ति मिलित्वा रात्रि यावन्निवासं कुर्वन्ति । के ते, खगाः पक्षिणः । क्व क्व, नगे नगे वृक्षे वृक्षे। किं कृत्वा, एत्य आगत्य । केभ्यो, दिग्देशेभ्यः दिशः पूर्वादयो दश देशस्तत्स्थैकदेशो अङ्गवङ्गादयस्तेभ्योऽवधिकृतेभ्यः । तथा यान्ति गच्छति । के ते, खगाः। कासु, दिक्षु दिग्देशेष्विति प्राप्तविपर्ययनिर्देशो गमननियमनिवृत्त्यर्थस्तेन यो यस्यामेव दिशि गच्छति यश्च यस्माद्देशादायातः स तस्मिन्नेव देशे गच्छतीति नास्ति नियमः । कि तहि, यत्र क्वापि यथेच्छं गच्छन्तीत्यर्थः। कस्मात, स्वस्वकार्यवशात् निजनिजकरणीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org