________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम्
[ श्लोक
निर्मलनिश्चलचिद्रपस्य आप्तिलब्धिः कथंचितादात्म्यपरिणतिः । कृतकृत्यतया स्वरूपेऽवस्थितिरित्यर्थः । तेन, स्वयं संपूर्णरत्नत्रयात्मनात्मना । क्व सति, अभावे शक्तिरूपतया विनाशे। कस्य, कृत्स्नकर्मणः । कृत्स्नस्य सकलस्य 'द्रव्यभावरूपस्य कर्मणः आत्मपारतन्त्र्यनिमित्तस्य ।।१।।
___ अथ शिष्यः प्राह स्वस्य स्वयं स्वरूपोपलब्धिः कथमिति । स्वस्यात्मनः स्वयमात्मना स्वरूपस्य सम्यक्त्वादिगुणाष्टकाभिव्यक्तिरूपस्य उपलब्धिः कथं केनोपायेन दृष्टान्ताभावादिति । अत्राचार्यः समाधत्ते
अर्थ-जिसको सम्पूर्ण कर्मों के अभाव होनेपर स्वयं ही स्वभावकी प्राप्ति हो गई है, उस सम्यग्ज्ञानरूप परमात्माको नमस्कार हो।
विशदार्थ-जिसे आत्माकी परतन्त्रता ( पराधीनता ) के कारणभूत द्रव्य एवं भावरूप समस्त कर्मोंके, सम्पूर्ण रत्नत्रयात्मक स्वरूपके द्वारा, सर्वथा नष्ट हो जानेसे निर्मल निश्चल चैतन्यरूप स्वभाव ( कथंचित् तादात्म्य परिणति ) की प्राप्ति हो गई है, उस सम्पूर्ण ज्ञानस्वरूप आत्माको जो कि मुख्य एवं अप्रतिहत अतिशयवाला होनेसे समस्त सांसारिक प्राणियोंसे उत्कृष्ट है, नमस्कार हो ॥१॥
दोहा-स्वयं कर्म सब नाश करि, प्रगटायो निजभाव।
परमातम सर्वज्ञको, वंदो करि शुभ भाव ॥१॥ "स्वयं स्वभावाप्तिः” इस पदको सुन शिष्य बोला कि-"आत्माको स्वयं ही सम्यक्त्व आदिक अष्ट गुणोंकी अभिव्यक्तिरूप स्वरूपकी उपलब्धि ( प्राप्ति ) कैसे (किस उपायसे) हो जाती है ? क्योंकि स्व-स्वरूपकी स्वयं प्राप्तिको सिद्ध करनेवाला कोई दृष्टान्त नहीं पाया जाता है और बिना दृष्टान्तके उपरिलिखित कथनको कैसे ठीक माना जा सकता है ? आचार्य इस विषयमें समाधान करते हुए लिखते हैं कि
योग्योपादानयोगेन, दृषदः स्वर्णता मता।
द्रव्यादिस्वादिसंपत्तावात्मनोऽप्यात्म ता मता ॥२॥ अन्वय-( यथा ) योग्योपादानयोगेन दृषदः स्वर्णता मता ( तथा ) आत्मनः अपि द्रव्यादिस्वादिसम्पत्तौ आत्मता मता ।
टीका-मता अभिप्रेता लोकैः । कासो, स्वर्णता सूवर्णभावः । कस्य, दषदः सुवर्णाविर्भावयोग्यपाषाणस्य । केन, योग्यानां सुवर्णपरिणामकरणोचितानामुपादानानां कारणानां योगेन२ मेलापकेन संपत्त्या यथा । एवमात्मनोऽपि पुरुषस्यापि न केवलं दृषद इत्यपिशब्दार्थः । मता कथिता । कासौ, आत्मता । आत्मनो जीवस्य भावो निर्मलनिश्चलचैतन्यम् । कस्यों सत्यां, द्रव्यादिस्वादिसंपत्तौ द्रव्यमन्वयिभावः आदिर्येषां क्षेत्रकालभावानां ते च ते स्वादयश्च सुशब्दः स्वशब्दो वा आदिर्येषां ते स्वादयो द्रव्यादयश्च स्वादयश्च । इच्छातो विशेषणविशेष्यभाव इति समासः । सूद्रव्यं सुक्षेत्र सुकालः सुभाव इत्यर्थः । सूशब्दः प्रशंसार्थः। प्रशास्त्यं चात्र 'प्रकृतकार्योपयोगित्वं द्रव्यादिस्वादीनां संपत्तिः संपूर्णता, तस्यां सत्याम् ॥ २॥
अथ शिष्यः प्राह-तहि व्रतादीनामानर्थक्यमिति । भगवन् यदि सुद्रव्यादिसामग्र्यां सत्यामेवायमात्मा स्वात्मानमुपलप्स्यते तहि व्रतानि हिंसाविरत्यादीनि आदयो येषां समित्यादीनां तेषामानर्थक्यं निष्फलत्वं स्यादभिप्रेतायाः स्वात्मोपलब्धः सुद्रव्यादिसंपत्त्यपेक्षत्वादित्यर्थः। अत्राचार्यों निषेधमाह-तन्नेति । वत्स ! यस्त्वया
१. ज्ञानावरणादि द्रव्यकर्माणि, रागद्वेषादयो भावकर्माणि । २. मेलापकेन । ३. कस्यां सामग्यां विद्यमानायाम् । ४. प्रारब्धकार्यसाधकत्वम् । ५. वाञ्छितायाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org