________________
१६० .
ग्रन्थायी महापर्वदिनस्याप्यैक्यम् । परं, षष्ठं तप उभयेषामपि क्व विधेयमिति प्रश्नार्थः । अत्र त्रयोदशीवृद्धिकारि प्रतिपद्वृद्धिकारि सम्प्रदायद्वयं प्रत्यपि माध्यस्थ्यमालम्ब्याऽनाग्रहभावेनैवोत्तरम् । तत्तु स्पष्टार्थमेव ।
___ एवम्-'अमावास्यादिवृद्धा' वित्यत्राऽऽदिपदात् प्रतिपवृद्धौ द्वितीयावृद्धौ तृतीयावृद्धौ चतुर्थीवृद्धौ पञ्चमीवृद्धौ वा प्रतिपदि कल्पो वाच्यते तदा षष्ठं तपः छ विधेय-' मिति प्रश्नः । अत्रोत्तरमपि तथैवेति । अत्र तिथिवृद्धिविषयकप्रश्नद्वयस्याऽपि एकमेवोत्तरमिति बोध्यम् ।
न चैवं सत्यमावास्यावृद्धौ अमावास्यायां प्रतिपदि वा कल्पो वाच्यते, प्रतिपदादिवृद्धौ प्रतिपदि कल्पो वाच्यते, तदा षष्ठतपः क्व विधेयमिति पृथक् पृथगेव कथं न प्रश्नोपन्यासः कृत इति वाच्यम् ।
तत्र प्रथमप्रश्न एव द्वितीयप्रश्नस्याऽन्तर्भावसम्भवाल्लाघवादुत्तरसाम्याच्च प्रश्नद्वयस्य पृथकपृथगुपन्यासस्याऽनावश्यकत्वादिति । तथा चैतत्प्रश्नस्याप्येवमन्यथैवोपपत्तिरिति तदन्यथाऽनुपपत्तिरेवाऽऽकाशकुसुमायितेति तदधीना पूर्णिमामावास्यावृद्धौ त्रयोदशीवृद्धिकरणरूपाऽविच्छिन्ननिर्दुष्टपरम्पराया अभावसाधनाऽपि तवाऽभिमताऽऽकाशकुसुमायितैवेत्यलम् ।
. अथ टिप्पनके भाद्रशुक्लपञ्चम्याः क्षये आराधनायां किं चतुर्थ्याः क्षयः कार्यः? किं वा तृतीयायाः? एवं तद्वृद्धावपि किं चतुर्थ्या वृद्धिः कार्या ? किं वा तृतीयायाः?! इति चेत् ।
अत्र केचिद्-'भाद्रशुक्लचतुर्थ्यपि पर्वतिथिरिति तस्या अपि क्षयवृद्ध्यभावाद, तथा, पूर्णिमामावास्ययोः क्षये त्रयोदश्या एव क्षयः क्रियते, वृद्धौ चाऽपि त्रयोदश्या एव वृद्धिः क्रियते, तथा भाद्रशुक्लपञ्चम्यां क्षयेऽपि तृतीयाया एव क्षयः कार्यः, वृद्धौ च तृतीयाया एव वृद्धिः कार्ये'त्यामनन्ति । एतन्मते 'भाद्रशुक्लचतुर्थ्याः क्षयेऽपि तृतीयाया एव क्षयः कार्यः, वृद्धावपि तृतीयाया एव वृद्धिः कार्या, न तु चतुर्थ्यास्तस्यां पर्वतिथित्वा दित्यपि बोध्यम् ।
___ अपरे त्वेवमाचक्षते यद्-भाद्रशुक्लचतुर्थ्या न पञ्चमीवत् पूर्णिमादिवद् वा पर्वतिथित्वम्, किन्तु, अपर्वतिथित्वमेव । निशीथचूादौ तस्या अपर्वत्वेनैवोक्तत्वात्।। यदि च श्रीकालिकाचार्यभगवता तत्र चतुर्थ्यां पर्युषणाऽऽनीतेति पर्युषणापर्वणो .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org