________________
१५६
ग्रन्थत्रयी चतुर्दशीति व्यपपदेशस्याप्यभावप्रसङ्गात् । तदाराधनार्थं त्रयोदशीदिनाऽनुपादानप्रसङ्गाच्च । चतुर्दशीवृद्धिस्थले च प्रथमदिने चतुर्दश्याः टिप्पनके औदयिकत्वसत्त्वेऽपि समातिमत्त्वाऽभावाद्विशेषणाभावप्रयुक्तविशिष्टाभावस्य सत्त्वेन तत्राऽपि चतुर्दशीतिव्यपदेशा- . ऽभावप्रसङ्गात् ।
न च तत्र प्रथमदिने सा फल्गुतिथिरेवेति वाच्यम् ।
आराधनायां फल्गुतिथि-क्षीणतिथि(थ्योः) द्वयोरप्याराध्यत्वस्य प्राक् 'क्षये पूर्वा तिथि: कार्या वृद्धौ कार्या तथोत्तरा' इति वचनेन तत्तद्रूपेण व्यवस्थापितत्वात् । किञ्चाऽऽराधनायां तत्र दिने फल्गुतिथिस्तव मते केन रूपेण व्यपदेश्या ?। किं तिथित्वरूपसामान्यरूपेण वा चतुर्दशीतिथित्वरूपविशेषरूपेण वा ?।
नाद्यः-विशेषविनिर्मुक्तसामान्यस्याऽभावात् । न द्वितीयः-तत्र दिने चतुर्दश्यां विशिष्टाभावत्वस्यैव सद्भावेन चतुर्दशीतिथित्वेनाऽपि व्यपदेश्यत्वाऽभावात् ।
एवं पञ्चम्यादितिथिवृद्धिस्थले टिप्पनकस्थप्रथमपञ्चम्यादिदिनेऽपि बोध्यम् । क्षीणपूर्णिमास्थले च त्रयोदशी-प्रतिपद्दिनयोर्द्वयोरपि पूर्णिमायाः समाप्तिमत्वाभावादौदयिकत्वाभावाच्च विशेषणाभाव-विशेष्याभावोभयप्रयुक्तविशिष्टाभावसत्त्वेन चतुर्दश्यां च पूर्णिमायाः समाप्तिमत्वेऽप्यौदयिकत्वाभावाद्विशेष्याभावप्रयुक्तविशिष्टाभावसत्त्वेन च त्रयोदशी-चतुर्दशी-प्रतिपद्दिनानामन्यतमस्याऽपि पूर्णिमात्वेन व्यपदेश्यत्वाऽभावात् तत्रयाणामन्यतमस्यापि पूर्णिमासम्बन्धितपोऽनुष्ठानाऽऽराधनार्थं तव मतेऽनुपादानप्रसङ्गात् । तथा च क्षीणचतुर्दशीस्थले तदाराधनार्थं त्रयोदश्या एव ग्रहणम्, क्षीणपूर्णिमास्थले च तदाराधनाथ त्रयोदश्यादिदिनत्रयाणामन्यतमस्य ग्रहणमिति त्वत्परिकल्पितप्रणालिकाया नियुक्तिकत्वमेवेति क्षीणचतुर्दश्याराधना क्षीणपूर्णिमाराधना च दत्ताञ्जलिरेव तवाऽऽपद्येत। एवमन्यत्रापि विभावनीयम् । सर्वं रहसि समालोच्य प्राविशदीकृतोऽस्मदुपदर्शित एव शास्त्रपरम्परोभयानुसारी पन्था ज्यायस्तयाऽऽराधनायां श्रेयोऽथिभिः स्वीकार्य इत्यलम् ।।
एतेन 'भाद्रशुक्लपञ्चम्या: क्षये पञ्चम्या एव क्षयो गण्यः, टिप्पनकोक्तौदयिकचतुर्थ्यामेव च सांवत्सरिकपर्वाराधनं विधेयम् । क्षीणपञ्चम्याराधनायाश्च तत्रैव समावेशः कार्यः'। इत्यपि निरस्तम् , 'क्षये पूर्वेति वचनप्रामाण्यात्, प्रागुक्तयुक्त्याऽऽराधनायां टिप्पनकोक्तचतुर्था एव पञ्चमीत्वेन गणनीयत्वात् । सांवत्सरिकपर्वणश्च पञ्चमीदिनाऽव्यवहितपूर्वदिनकर्तव्यताकत्वनियमात् । अनन्तरोक्तत्रुटितपञ्चमीप्रश्नोत्तरे च 'पूर्वस्यां तिथौ समाविश्यते' इत्यनुक्त्वा 'पूर्वस्यां तिथौ क्रियते' इत्युक्तेश्च । तत्रापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org