________________
१५१
पर्युषणातिथिविनिश्चयः ॥ तत्र षष्ठतपश्चतुर्दशीपूर्णिमासम्बन्ध्युपवासद्वयात्मकम् । तत्र पूर्णिमासम्बन्धी प्रथमोपवासः त्रयोदश्यां क्रियते, चतुर्दश्यां च चतुर्दशीसम्बन्धी द्वितीयोपवासः । इत्थमेव तत्र त्रयोदशीचतुर्दश्योः षष्ठतपः क्रियते । तत्र त्रयोदश्यां पूर्णिमासम्बन्धितपसो विस्मृतौ प्रतिपद्यपि तत्क्रियते इतीति चेत् ।।
न । तादृशार्थे प्रमाणाभावात् । चतुर्दशीपूर्णिमातपसः शास्त्रसिद्धसर्वकालीनक्रमिककर्तव्यताकस्य व्युत्क्रमापत्तेः, प्रतिमाधरस्याऽपि चतुष्पाऽऽराधनायां तपोव्युत्क्रमे महदसामञ्जस्यापत्तेश्च । तत्रापि प्रमाणाभावाच्च ।।
न चाऽस्य प्रश्नोत्तरस्यैवाऽन्यथानुपपत्त्याऽत्रार्थे प्रामाण्यमिति वाच्यम् ।
तस्याऽन्यथैवोपपादितत्वादन्यथाऽनुपपत्तेरेवाऽभावात् । एवमस्य प्रश्नोत्तरस्यैतादृशार्थकत्वे सिद्ध एव तवाभिमतसिद्धिः, तवाभिमतसिद्धावेव च तस्यैतादृशार्थकत्वसिद्धिरित्यन्योन्याश्रयोऽपि दुरुद्धरः ।
किञ्च, 'त्रयोदश्यां विस्मृतौ' इत्यत्र, 'प्रतिपद्यपि' इत्यत्र च पूर्णिमामात्रसम्बन्धितपसोऽन्वयोऽप्यसङ्गत एव । तत्र तद्वाचकपदाभावेन तदर्थस्यैव तत्राऽनुपस्थितत्वात् । प्रागपि तद्वाचकपदाभावेन तत्र तत्परामर्शस्याऽप्यसम्भवात् । किन्तु, 'त्रयोदशीचतुर्दश्योः क्रियते' इत्यत्र 'तत्तप' इत्यवश्यमध्याहार्यम् । अन्यथा, निराकाङ्क्षवाक्यार्थप्रतिपत्तेरेवाऽभावात् । तत्र च तपःपदस्य षष्ठतपोऽर्थकत्वं त्वयाऽपि स्वीकार्यमेव । अन्यथा, 'त्रयोदशीचतुर्दश्योः' इत्यत्र चतुर्दशीत्यस्यैवाऽनन्वयाऽऽपत्तेः । तदेव च पदं "विस्मृतौ' इत्यत्र, 'प्रतिपद्यपि' इत्यत्र चाऽध्याहार्यम्, पदान्तराभावात् । तथैव सङ्गतेश्च प्रागुक्तत्वात् । यतो यस्यैव त्रयोदशीचतुर्दश्योविधानं तस्यैव 'विस्मृतौ' 'प्रतिपद्यपी'त्यनेन कारणिकं विधानमिति सङ्गतिः । तत्रार्थभेदकल्पने प्रमाणाभावः, असङ्गतत्वापत्तिः, वाक्यभेदापत्तिः, प्रश्नान्तरापत्तिश्च । विवादापत्रस्य प्रश्नस्य पूर्णिमामात्रसम्बन्धितपोविषयकत्वाभावात् । यतः पूर्णिमाविषयकप्रश्नस्य षष्ठतपोविषयकत्वमेव त्वयाऽपि स्वीकृतमिति तदुत्तरेऽपि सर्वत्र षष्ठतपोग्रहणस्यैव युक्तत्वम् । तस्मादस्मदुक्त एवार्थों ज्यायान् । तत्रैव प्रमाणोपपत्तेः, तपोव्युत्क्रमाऽनापत्तेः, असङ्गतत्वाऽनापत्तेः, वाक्यभेदाऽनापत्तेः, प्रश्नान्तराऽनापत्तेश्च, प्रागुपदर्शिताऽविच्छिनसुविहितपरम्पराविलोपाऽनापत्तेश्चेति बोध्यम् ।
एतेन, यदा पूर्णिमा क्षीयते तदा तत्तपः त्रयोदश्यां क्रियते, तदनन्तरं चतुर्दश्यास्तपः क्रियते। पूर्णिमादिवसस्तु क्षयं प्राप्तः, अतः पूर्णिमातपः त्रयोदश्यां पूर्यते । तपोव्युत्क्रमसम्मोहो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org