________________
पर्युषणातिथिविनिश्चयः ॥
१४९ दुत्तरस्यामेव तिथौ क्रियते, न तु तत्पूर्वस्यां नित्यपर्वतिथौ । तथैव सर्वत्र सर्वदा सुविहितपरम्परागतप्रवृत्तिसद्भावादिति ।
यथाऽद्यापि यावत् सुविहितपरम्परया सर्वत्र श्रीश्रमणसङ्ग्रेन टिप्पनके वैशाखशुक्लतृतीयाक्षये आराधनायामपि तृतीयाया एव क्षयो गण्यते, न द्वितीयायाः । द्वितीयायां तु नित्यपर्वत्वेन द्वितीयाया एवाऽऽराधना क्रियते । वार्षिकतपःपारणकादिरूपाऽक्षयतृतीयाऽऽराधना तु तत्र टिप्पनकस्थौदयिकचतुर्थ्यामेव क्रियते । एवं टिप्पनके आषाढशुक्लषष्ठीक्षये आराधनायामपि षष्ठ्या एव क्षयो गण्यते, न तु पञ्चम्याः, तस्या नित्यपर्वतिथित्वात् । तत्र कल्याणकतपो-रथयात्रादिरूपा षष्ठ्याऽऽराधनापि टिप्पनकस्थौदयिकसप्तम्यामेव क्रियते, न तु पञ्चम्याम् । तत्र नित्यपर्वत्वेन तस्या एवाऽऽराधनाया: क्रियमाणत्वादित्येवमन्यत्राऽपि बोध्यम् ।
नन्वेवं, "टिप्पनके पूर्णिमाक्षये सत्याराधनायां प्रागुक्तयुक्त्या त्रयोदश्या एव क्षयस्य गणनीयत्वे सिद्धे सति पञ्चमीतिथिस्त्रुटिता भवति । तदा तत्तपः कस्यां तिथौ क्रियते ?। पूर्णिमायां च त्रुटितायां कुत्र ?। इति प्रश्नः । अत्रोत्तरम्- पञ्चमीतिथिस्त्रुटिता भवति, तदा तत्तपः पूर्वस्यां तिथौ क्रियते । पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते । त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपि' । इत्यस्य श्रीहीरप्रश्नोत्तरस्य कोऽर्थः ? इति चेत् । उच्यते -
यदा टिप्पनके पञ्चमीतिथिस्त्रुटिता भवति तदा पञ्चमीतपः । अत्र तप इत्युपलक्षणं बोध्यम् । तेन सर्वापि पञ्चम्याराधना बोध्या । कस्यां तिथौ क्रियते ? पूर्णिमायां च टिप्पनके त्रुटितायां कुत्र-षष्ठं तपः कुत्र क्रियते ? इति प्रश्नस्यार्थः ।
___एवं, यदा टिप्पनके पञ्चमी तिथिस्त्रुटिता भवति तदा तत्तपः-तपःप्रभृतिका सर्वाऽपि पञ्चम्याऽऽराधना-पूर्वस्यां तिथौ-टिप्पनकोक्तचतुर्थ्यां तिथौ क्रियते । यतः टिप्पनके पञ्चमीक्षये आराधनायां 'क्षये पूर्वे'ति वचनप्रामाण्यात् तत्र दिने टिप्पनकोक्तचतुर्थ्या एव पञ्चमीत्वेन प्रमाणतया कर्तव्यतोपदेशेन टिप्पनकोक्तचतुर्थ्यामेव पञ्चम्यभेदाध्यारोपात् चतुर्थी पञ्चम्येव गणनीयेति चतुर्युव तत्र पञ्चमी जातेति । एवं टिप्पनके पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्यो:-टिप्पनकोक्तत्रयोदशीचतुर्दशीदिनयोः, आराधनायां क्रमेण चतुर्दशी-पूर्णिमादिनत्वेन गणनीययोः क्रियते-षष्ठं तपः क्रियते । टिप्पनके पूर्णिमाक्षये आराधनायां 'क्षये पूर्वेति वचनेन तत्र दिने टिप्पनकोक्तचतुर्दश्या एव पूर्णिमात्वेन प्रामाण्यात्, तत्रैव च पूर्णिमाभेदाध्यारोपात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org