________________
१४६
ग्रन्थत्रयी तत्पूर्वस्यामेव तिथौ पूणिमात्वादिना प्रामाण्यस्याऽस्वीकारात्, तद्वचनाऽऽज्ञाभङ्गापत्तेश्च । तस्मात् सर्वासामपि पूर्णिमामावास्यानां पर्वतिथित्वस्य शास्त्रसिद्धत्वेन 'क्षये पूर्वेति वचनानुसारेण प्रागुक्तयुक्त्या टिप्पनके-'तत्क्षये आराधनायां सर्वत्रापि त्रयोदश्या एव क्षयस्य प्राप्यमाणत्वं विभावनीय'मिति ।
उक्तं चाऽन्यत्राऽपि - 'बीयाए पंच पव्वि-खयंमि पुव्वस्स तिहिखओ होइ । पुण्णिमाखए तेरसी अमावास्साए एमेव ॥ १ ॥ विसरणाए पडिवा एवं भणियं जिणवरिंदेहि । कत्तियआइबारस पुण्णिमावासाय तुल्लाय ॥ २ ॥' इति ।
इत्थं च प्रागुपदर्शितायाः शास्त्राबाधिताया अविच्छिनायाः सुविहितपरम्परायाः प्रामाण्यमपि प्रागुपदर्शितप्रक्रियया 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे'ति श्रीउमास्वातिवाचकवचनप्रामाण्यमूलकत्वेन सूपपत्रमेव ।।
एवं श्रीजिनप्रभसूरिविरचितायां श्रीविधिप्रपानामखरतरगच्छीयसामाचार्याम्'पक्खिय-चाउम्मासिय-अट्ठमि-पंचमी-कल्लाणयाइतिहीसु तवपूयाईए उदइयतिही अप्पयरभुत्ता वि घेत्तव्वा, न बहुतरभुत्ता वि इयरा । जया य पक्खियाइपव्वतिही पडइ तया पुवतिही चेव तब्भुत्तिबहुला पच्चक्खाणपूयाइसु धिप्पइ, न उत्तरा । तब्भोगगंधस्स वि अभावाओ । पव्वतिहिवुड्ढीए पुण पढमा चेव पमाणं संपुण्ण त्ति काउं । नवरं चाउम्मासिए तह य चउद्दसीहासे पुण्णिमा जुज्जइ । तेरसीगहणे आगम-आयरणाणं अन्नयरं पि नाराहियं होज्जा ।' इत्युक्तमपि परास्तं वेदितव्यम्, तिथिप्रामाण्यलक्षणस्याऽनैयत्यापत्तेः । अव्याप्त्यतिव्यातिप्रसङ्गात् । क्वचिदौदयिकत्वस्य क्वचित् सूर्योदयसूर्यास्तोभयस्पर्शित्वस्य क्वचिद् भोगवत्त्वस्य क्वचिदल्पभोगवत्त्वस्य कचित् सम्पूर्णभोगवत्त्वस्य क्वचिदुत्तरतिथित्वस्य तिथिप्रामाण्यलक्षणघटकत्वमित्यत्र प्रमाणाभावाच्च । पर्वतिथिपातस्थले तद्भोगगन्धाभावेन न तदुत्तरतिथिग्रहणं त्रुटितचतुर्दशीस्थले च तद्भोगगन्धाभावेऽपि तदुत्तरपूर्णिमातिथिग्रहण-मित्यस्यागमोपपत्तिरहितत्वेन निर्मूलत्वात् ।
___ एवं श्रीपर्युषणाचतुर्थ्याः क्षये तदुत्तरपञ्चमीस्वीकारोऽपि निर्मूल एवेत्यपि व्याख्यातम् । एवं प्रविष्टतिथित्वेन प्रतिक्रमणादिक्रियाकालवर्तमानतिथित्वेन वा प्रामाण्यमित्यपि निरस्तम् । सर्वत्रौदयिकत्वेनैकरूपेणैव तिथेः प्रामाण्यात्, तस्या एव चाऽहोरात्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org