________________
१८
श्रीअरनाथजिनगीतिः।
श्रीअर ! निर्दय इह कस्त्वमिव? .. हन्ति निशितबाणैर्मी मदनापसदोडकरुणमतीव पश्यन्नपि मदुपेक्षां कुरुषे भुवनत्रातः ! किमिव ?.... १
कारितवानपकृत्यश्रेणिं जाल्मोऽयं मम हस्तैः असहायं मां निजदुष्कर्मा-यत्तं त्यजसि कथमिव?... २
बुद्धि-शक्ति-गुण-धर्मविहीनोऽहं शल्यत्रयविद्धः दण्डत्रिकदण्डितचेताः कः कृतकव्रती स्यादहमिव?...३
दुर्गुणभरभरितोऽहं कामं तदपि त्वत्पदभक्तः त्वं गुणाब्धिरपि भक्तोपेक्षी श्रेष्ठ आवयोः क इव ?.... ४
'जनतारक' इति बिरुदं तव यदि वाञ्छा सत्यापयितुम् मादृशमधमं त्राणशील हे ! तारय तर्हि तृणमिव.... ५
पूल
५९
இ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org