________________
९
श्रीसुविधिनाथजिनगीतिः
सत्यं नाऽहं नहि मम किञ्चित्
अद्यावधि 'सर्वं मम' इति मे मतिरतितीव्रा समभूत् स्वार्थाधीनं किन्तु तदखिलं मनुते मां यत्किञ्चित्.....
लोक समाराधनचेष्टायां कालः सुमहान् गमितः श्रमितोऽहं बहु तत्र तथाऽपि तोषितवान् नहि कञ्चित्....
लोकवास्तवमितीक्षित्वाऽथ तत्त्यागोद्यतचेताः जिनप! त्वामनपेक्षसहायं श्रितवानहमविपश्चित्.....
१
सुविधिनाथ ! मम वारय ममता - महङ्कारमपि दारय 'त्वं मेऽहं तच' इति विश्वासं प्रकटय जिन ! मयि भवभित्... ४
भक्तिरेव शीलं मम धर्मो भक्तिरेव चिरमस्तु येनाsहंता - ममतायुगलं त्यजति झटिति जिन ! मम हृत्..... ५
૫૦
Jain Education International For Private & Personal Use Only www.jainelibrary.org