________________
-
श्रीसुपार्श्वनाथजिनगीतिः ॥
रे मम मनसि मुदा त्वं वसतु देव ! सुपार्थ ! सदा तव ध्यानं मम हृदये प्रविलसतु....
मम चित्तं बहुदोषकलुषितं पर्युषितं ननु कमलं त्वदर्शनमधुरामृतसेकात् शुचि भूत्वा प्रविकसतु......... १ असमप्रशमरसखचितां निचितां गुणपरमाणुसमूहै: तव मुखमुद्रां वीक्ष्योन्मुद्रां नयनयुगं मम हसतु...........
भीमभवारण्येऽशरणोऽहं लुट्यति मां मोहारिः अधुना स्वीकुर्वे तव शरणं येनाऽसौ सन्त्रसतु.............
अभयदानशीलोऽसि त्वमिति श्रुत्वा त्वां प्रतिपन्नः दुर्गतिभयभीतेऽथ विभो ! तव कुणा मयि उल्लसतु...... ४
४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org