SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सप्तदशसूभयक्षेपादष्टादशस्वपि च । सर्वे पर्याप्तत्रीन्द्रियबन्धहेतुभगा द्विनवतं शतम् १९२ । सर्वसङ्ख्यया त्रीन्द्रियेषु भङ्गा द्विसप्तत्यधिकषट्शतानि ॥ द्वीन्द्रियाऽपर्याप्तस्य सासादनस्य जयन्यपदे पञ्चदश बन्धहेतवस्ते च प्राग्वन्नवरमत्र द्वयोरिन्द्रियाऽसंयमयोरन्यतरोऽसंयमो वक्तव्यः । तत्र प्राग्वदङ्कानां गुणने जाता द्वात्रिंशत् । तावन्त एव भयक्षेपाज्जुगुप्साक्षेपाद्वा षोडशम्भयक्षेपात् सप्तद शस्वपि च । सर्वसङ्ख्यया द्वीन्द्रियाऽपर्याप्तसासादनस्य बन्धहेतुभङ्गा अष्टाविंशं शतम् । मिथ्यादृष्टेरपर्याप्तद्वीन्द्रियस्य जघन्यपदे पोडश बन्धहेतवो मिथ्यात्वप्रक्षेपात् । योगाश्चात्र त्रय इति प्राग्वदङ्कगुणनेऽष्टचत्वारिंशत् । इयन्त एव भयक्षेपाज्जुगुप्साक्षेपाहा सप्तदशम्भयक्षेपादष्टादशस्वपि च । सर्वे मीलिता द्विनवतं शतम् । गुणस्थानद्वये द्वीन्द्रियाऽपर्याप्तस्य त्रिशती विंशत्यधिका ॥ पर्याप्तद्वीन्द्रियस्य जयन्यपदे पोडश बन्धहेतवस्ते च प्राग्वन्नवरमौदारिकाऽसत्यामृषाभाषयोरन्यतरोयोग इह वाच्यः। ततः प्राग्वदङ्कताडने लब्धा द्वात्रिंशत् । इयन्त एव भयक्षेपाज्जुगुप्साक्षेपाद्वा सप्तदशसूभयक्षेपादष्टादशस्वपि च भङ्गाः। सर्वे पर्याप्तद्वीन्द्रियबन्धहेतुभङ्गा अष्टाविंशं शतम् । सर्वे द्वीन्द्रियहेतुभङ्गाश्चत्वारि शतान्यष्टचत्वारिंशदधिकानि ॥ बादरैकेन्द्रियस्याऽपर्याप्तस्य सासादनस्य जघन्यपदे पञ्चदश बन्धहेतवस्ते च प्राग्वन्नवरमत्रैकः स्पर्शनेन्द्रियाऽसंयमो वक्तव्यः । ततः प्राग्वदकानां गुणने भङ्गाः पोडश । इयन्त एव भयस्य जुगुप्साया वा क्षेपे षोडशसूभयक्षेपे सप्तदशस्वपि च । सर्वे मिलिताश्चतुःषष्टिः । ............. ................ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001469
Book TitleBandhhetubhangprakaranam
Original Sutra AuthorYashovijay Upadhyay
AuthorShilchandrasuri
PublisherYashobhadra Shubhankar Gyanshala Godhra
Publication Year1987
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy