________________
२७.
ऽस्य जघन्यपदे षोडश बन्धहेतवः - मिथ्यात्वं षट्कायवधः पश्चानामन्यतम इन्द्रियाऽसंयमो द्वयोरन्यतरद् युगलं अनन्तानुबन्ध्याद्यन्यतमक्रोधादिचतुष्टयं त्रयाणामन्यतमो वेदो द्वयोरौदारिकाऽसत्यामृषाभाषारूपयोोगयोरन्यतरो योगः । अत्र प्राग्वदगुणने भङ्गानां चत्वारिंशदधिका शतद्वयी । सैव भयक्षेपाज्जुगुप्साक्षेपाद्वा सप्तदशसु, उभयक्षेपादशादशस्वपि च, सर्वसङ्ख्यया पर्याप्ताऽसंज्ञिपश्चेन्द्रियस्य नवशती षष्टयधिका ॥
__चतुरिन्द्रियस्याऽपर्याप्तस्य सासादनस्य जवन्यपदे पञ्चदश बन्धहेतवः । षट्कायवधश्चतुर्णामिन्द्रियाऽसंयमानामेकोऽसंयमो युगलमन्यतरद् वेद एक एव नपुंसकाख्यः । यद्यपि संज्ञिपञ्चेन्द्रियव्यतिरिक्ताः सर्वेऽपि नपुंसका एव, तथाप्य संज्ञिपञ्चेन्द्रियाः स्त्रीपुंसलिङ्गाकारमात्रमधिकृत्य स्त्रीवेदे पुंवेदेऽपि च प्राप्यन्त इति तत्र त्रयो वेदा गृहीताश्चतुरिन्द्रियादीनां तु बाह्यस्त्रीपुंसलिङ्गाकारमात्रमपि न विद्यत इतीह नपुंसकवेद एव ग्राह्यः । अनन्तानुबन्ध्यादीनामन्यतमक्रोधादिचतुष्टयं कार्मणौदारिकमि(श्र)योरन्यतरो योगः । ततोऽङ्कताडनया जाताश्चतुःपष्टिः पञ्चदशवन्धहेतुभङ्गाः । एत एव भयप्रक्षेयाज्जुगुप्साप्रक्षेपाहा पोडशसु, उभयप्रक्षेपात् सप्तदशस्वपि च । सर्वसङ्ख्यया चतुरिन्द्रियापर्याप्तस्य सासादनस्य द्विशती षट्पञ्चाशदधिका ।
मिथ्यादृष्टेदपर्याप्तचतुरिन्द्रियस्य जघन्यपदे पोडश, मिथ्यात्वप्रक्षेपात् । योगाः कामणौदारिकमिश्रौदारिकरूपास्त्रयः । ततोऽङ्कताडने भङ्गाः पण्णवतिः । इयन्त एव भयक्षेपाज्जुगुप्साक्षेपाद्वा सप्तदशसूभयक्षेपादष्टादशस्वपि च । सर्वाग्रं चतुरशीत्यधिकं शतत्रयम् । गुणस्थानकद्वयेऽपि सर्वसङ्कख्ययाऽपर्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org