________________
च शतानि । एवं कायपश्चकवध-जुगुप्साऽनन्तानुबन्धिप्रक्षेपेऽपि । यद्वा कायचतुष्टयवध-भय-जुगुप्साऽनन्तानुबन्ध्युपादाने षोडश । तत्र भङ्गानां सप्तदशसहस्राधिक लक्षम् । सर्वसङ्खयया पोडशबन्धहेतुभङ्गा द्वे लक्षे षट्षष्टिसहस्राणि चत्वारि शतानि ।
त एव दश कायषट्कवध-भय-जुगुप्साग्रहणे सप्तदश स्युः । तत्र भङ्गाः षटू सहस्राणि । यद्वा षट्कायवध-भिया] नन्तानुबन्धिग्रहणे सप्तदश । तत्र भङ्गाः प्राग्वदष्टसप्ततिशतानि । एवं षट्कायवध-जुगुप्सा-ऽनन्तानुवन्धिप्रक्षेपेऽपि । अथवा कायपञ्चकवध-भय-जुगुप्सा-ऽनन्तानुबन्धिप्रक्षेपे सप्तदश । तत्र भङ्गानां षट्चत्वारिंशत्सहस्राण्यष्टौं च शतानि । सर्वसङ्ख्यया सप्तदशबन्धहेतुभङ्गानामष्टषष्टिसहस्राणि चतु:शताधिकानि ।
त एव दश षट्कायवध-भय-जुगुप्सा-ऽनन्तानुवन्धिप्रक्षे[प]ऽष्टादश । तत्र भङ्गानामष्टसप्ततिशतानि । सर्वसङ्ख्यया मिथ्यादृष्टौ बन्धहेतुभङ्गाश्चतुशिल्लक्षाः सप्तसप्ततिसहस्राणि षट्शतानि च । भाविता मिथ्यादृष्टौ वन्धहेतुभङ्गाः ॥ अथ सासादने भाव्यन्ते । -
तत्र च त्रिभिवदैत्रयोदश योगा गुण्यन्ते, जाता एकोनचत्वारिंशत् । तत एकरूपमपसार्यते; यतः सासादनभावं प्राप्तस्य नपुंसकवेदोदये वैक्रियमिश्रः काययोगो न सम्भवति वैक्रियमिश्रो हि काययोगः कार्मणेन सह विवक्षितः, स च नपुंसकवेदोदये नरकभवोत्पत्तौ प्राप्यते, नान्यत्रसासादनभावं प्राप्तश्च नरकंन] यातीति स्थिता अष्टत्रिंशत् । ते पइभिः कायवधैगुण्यन्ते, जातमष्टाविंशं शतद्वयम् । तत् पञ्चभिरिन्द्रियाऽसंयमैगुण्यते, जातान्येकादशशतानि चत्वारिंशदधिकानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org