________________
___ पूर्वोक्तेषु दशसु बन्धु(न्ध)हेतुषु भय-जुगुप्सा-ऽनन्तानुबन्धिप्रक्षेपात् त्रयोदश भवन्ति । अनन्तानुवन्ध्युदये च योगास्त्रयोदशेति प्राग्वल्लब्धानि षट्चत्वारिंशत्सहस्राण्यष्टौ च शतानि । यदा कायचतुष्टयवधपरिग्रहा(त् ) त्रयोदश। षण्णां च पदानां चतुष्कसंयोगे भङ्गाः पञ्चदशेति पञ्चदशाद्यङ्कताडने नवतिसहस्राणि भङ्गाः । अथवा भय-कायत्रयवधप्रक्षेपे त्रयोदश । त्रिकसंयोगे च भङ्गा विंशतिरिति प्राग्वल्लब्धं विंशतिसहस्राधिकं लक्षम् । एवं जुगुप्साकायत्रयवधेऽपि प्रक्षिप्ते द्रष्टव्यम् । यद्वाऽनन्तानुवन्धि-कायत्रयवधपरिग्रहे त्रयोदश । तत्र भङ्गा लक्षं पट्रपञ्चाशत्सहस्राधिकम् । यद्वा जुगुप्सा-भयकायद्वयंव(यव)धप्रक्षेपे त्रयोदश । तत्र भङ्गा नवतिसहस्राणि । त(भ)या -ऽनन्तानुवन्थि-कायद्वयवधप्रक्षेपाढा त्रयोदश । तत्र भङ्गानां लक्षं सप्तदशसहस्राधिकम् । एवमनन्तानुबन्धि-जुगुप्सा-कायद्वयवधपरिग्रहेऽपि । संख्या(ख्य)या त्रयोदशवन्धहेतुभगा अष्टौ लक्षाः पट्पञ्चाशत्सहस्राणि चाष्टशताधिकानि ।
त एव दश बन्धहेतवः कायपश्चकवधपरिग्रहे चतुदश भवन्ति । पण्णां च कायानां पञ्चसंयोगे भङ्गाः षट् । ततोका(ऽङ्का)नां गुणने भङ्गाः षत्रिंशत्सहस्राणि । अथवा कायचतुष्टयवध-भयपरिग्रहे चतुर्दश । षण्णां च चतुष्कसंयोगे भङ्गाः पञ्चदशेति पञ्च (?) पञ्चदशाधङ्कमेने(ताडने)भङ्गा नवतिसहस्राणि । एवं कायचतुष्टयवध-जुगुप्सापरिग्रहेऽपि । यद्वा कायचतुष्टयवधाऽनन्तानुबन्धिपरिग्रहे चतुर्दश । अनन्तानुबन्ध्युदये च योगास्त्रयोदशेति भङ्गा लक्षमेकं सप्तदश च सहस्राणि । यहा कायत्रयवध-भय-जुगुप्सोपादानाचतुर्दश । कायत्रयसंयोगे च भङ्गा विंशतिरिति लब्धं प्राग्यद्विशत्युत्तरं लक्षम् [विंशतिसहस्रोत्तरं लक्षम् ] । यद्वा कायत्रयवध-भया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org