________________
नामन्यतमो योग इत्युक्तम् । अनन्तानुबन्धिभयजुगुप्साश्च विकल्पितोदया इति तदुदयाभावे जघन्यपदे दश बन्धहेतवः। अत्र मिथ्यात्वमवान्तरभेदापेक्षया पञ्चधा । ते च पञ्चापि भेदा एकैकस्मिन् कायघाते सम्भवन्तीति षट् पञ्चभिर्गुण्यन्ते जाता त्रिंशत् । ते चैकैकस्मिन् इन्द्रियाऽसंयमे प्राप्यन्ते; इन्द्रियाऽसंयमाश्च पञ्च, मनोऽसंयमस्त्वेतदन्तर्गतत्वादेव न पृथग विवक्षितः; ततः त्रिंशता पञ्च गुण्यन्ते, जातं सार्द्धशतम् । इदं च सार्द्ध शतमेकैकस्मिन् युगले प्राप्यते इति सार्द्धशतेन द्वे गुण्यते, जातानि त्रीणि शतानि । अमूनि चैकैकस्मिन् वेदे सम्भवन्ति, वेदाश्च त्रय इत्येतैत्रिभिः शतैस्त्रयो गुण्यन्ते, जातानि नव शतानि । तानि चैकैकस्मिन् क्रोधादित्रिके प्राप्यन्ते, क्रोधादयश्च चत्वार इति चत्वारो नवभिः शतैर्गुण्यन्ते, जातानि पत्रिंशच्छतानि । तानि च प्रत्येकमेकैकस्मिन् योगे सम्भवन्ति, योगाश्च दशेति दश षत्रिशच्छतैर्गुण्यन्ते, जातानि षट्त्रिंशत्सहस्राणि । एतावन्तो दशानां बन्धहेतूनां भङ्गाः ।
त एव प्रागुक्ता दश भयप्रक्षेपादेकादश । तत्र च भङ्गाः प्रागुक्तप्रमाणाः -३६००० । अथवा जुगुप्साप्रक्षेपादेकदे(काद) श । अत्रापि भङ्गास्तु (स्ता) वन्त एव ३६००० । अथवाऽनन्तानुबन्ध्यन्यतमक्रोधादिप्रक्षेपादेकादश । अनन्तानुबन्ध्युदये च योगास्त्रयोदश भवन्तीति कपायगुणनतो लब्धानि षत्रिंशच्छतानि त्रयोदशभिर्गुण्यन्ते, जातानि षट्चत्वारिंशत्सहस्राण्यटशताधिकानि । अथवा षण्णां कायघातानामन्यतमः कायघात इति यत् प्रागुक्तं तदिह न गृह्यते, किन्तु पृथिव्याद्यन्यतमकायवधद्वयं प्राणिभेदेन तद्वयपरोपणभेदाश्रयणादित्येकादश भवन्ति । षण्णां च पदानां द्विकसंयोगे भङ्गाः पञ्चदश ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org