SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ क्लेशक्षयो हि मण्डूकचूर्णतुल्यः क्रियाकृतः । दग्धतच्चूर्णसदृशो, ज्ञानसार कृतः पुनः ।।९।। ज्ञानपूतां परेऽप्याहुः, क्रियां हेमघटोपमाम् । युक्तं तदपि तद्भावं न यद्भग्नाऽपि सोज्झति ।।१०।। क्रियाशून्यं च यज्ज्ञानं, ज्ञानशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ।।११।। चारित्रं विरतिः पूर्णा, ज्ञानस्योत्कर्ष एव हि । ज्ञानाद्वैतनये दृष्टिर्दे या तद्योगसिद्धये ।।१२।। सिद्धि सिद्धपुरे पुरन्दरपुर स्पर्धावहे लब्ध्वांश्चिद्दीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि । एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणां, तैस्तैर्दीपशतैः सुनिश्चयमतैर्नित्योऽस्तु दीपोत्सवः ।।१३।। केषांचिद्विषयज्वरातुरमहो चित्तं परेषां विषावेगोदर्ककुतर्कमूर्च्छितमथान्येषां कुवैराग्यतः । लग्नालर्कमबोधकूपपतितं चास्ते परेषामपि, स्तोकानां तु विकारभाररहितं तज्ज्ञानसाराश्रितम् ।। १४ ।। जातोद्रेकविवेकतोरणततौ धावल्यमातन्वति, हृद्गेहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः । पूर्णानन्दघनस्य किं सहजया तद्भाग्यभङ्ग्याऽभव- .. नेतद्ग्रन्थमिषात् करग्रहमहश्चित्रं चरित्रश्रियः ।।१५।। જ્ઞાનસારનું તત્ત્વદર્શન 176 Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy