SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ anon COM MORA ॥१८॥ ॥१९॥ ॥२०॥ तस्याग्रतो बहुतृणं त्रिदशेश्वरोऽपि यद्वाल्यमेतदखिलं भुवनं लघीयः । अर्वाणमध्वनि नियोजयितुं यमेष श्रीसुव्रतो जिनपतिः स्वयमाजगाम कृत्येऽपि केषु निरताः खलचेतसोऽपि शुद्धाशया अपि चरन्ति च केऽथ कृत्यम् । तेषामगम्यपरलोकफलोदयानां देवः परं फलयितुं चतुरो विपाकम् क्लेशाविलेषु नरकैकनिबन्धनेषु किं कुर्महे कलुषकर्मसु याति चेतः । न त्वेव देव! परमं प्रशमाञ्चितासु निर्वाणहेतुषु मनागपि सत्क्रियासु कृत्येषु नन्दति विषीदति विक्रियासु श्रद्धां दधाति विजहात्यपथं स एव । श्रीदेवसुव्रत ! य एव विकाशिकुन्द - कोशत्विषां तव दशां ललितैः पवित्रः आजन्मरोगिषु पराभवसारभावपीडावृथाकृतसमस्तगुणोदयेषु अस्मादृशेषु परदास्यनियन्त्रितेषु काञ्चिद्दिशं विमृश सुव्रतदेवदेव ! स्तुतयः शतशः पुरा कृताः कविभिः सन्ति महद्भिरद्भुताः। तदिदं तु निजस्य जन्मनः सुखवन्ध्यत्वनिवेदना परम् नितरामतराम चन्द्रकीर्ते ! भवजलधिं न विना तव प्रसादात् । प्रथय जिन ! ततस्तथा प्रसाद सफलमनोरथवीथयो यथा स्मः छ ॥२१॥ ॥२२॥ ॥२३॥ Sca ||२४|| ब Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy