________________
MOR
Saner
श्रीदेवनन्दिप्रणीतं स्तोत्रम् संस्तूयसे शुभवता मुनिना यकेन, नीतो जिनाशु भवता मुनिनायकेन। नाथेन नाथ मुनिसुव्रत मुक्तमानां, मुक्तिं चरन्स मुनिसुव्रतमुक्तमानाम् ।।
मुनिसुव्रतजिनचैत्यवंदनम्
(अन्यगेयपद्धति रागः) उत्तमचेतन ! धर्मसमृद्ध ! जगत्पते !, नित्याऽनित्यपदार्थनिचयविलसन्मते! । निजविक्रमजितमोहमहोद्भटभूपते!, श्रीपद्मातनुजात ! सुजातहरिद्दुते ! ॥१॥ श्रीमुनिसुव्रत ! सुव्रतदेशक ! सज्जनाः, कृतसद्गुरुशुभवाक्यसुधारसमज्जनाः । ये प्रणमन्ति भवन्तमनन्तसुखाश्रितं, केवलमुज्ज्वलभावमखण्डमनिन्दितम्॥२॥ ते निःसंशयमेव जगत्त्रयवन्दिताः, सद्भावेन भवन्ति सुदृष्ट्याऽऽनन्दिताः। कृत्यं स्वोचितमेव यतः किल कारणं, जनयति नात्मविरुद्धमिहासाधारणम् ॥३॥
(त्रिभिर्विशेषकम्) श्रीशोभनमुनिवर्यविरचिता मुनिसुव्रतजिनस्तुतयः
(नर्कुटकम्) जिनमुनिसुव्रतः समवताज्जनतावनतः
समुदितमानवा धनमलोभवतो भवतः। अवनिविकीर्णमादिषत यस्य निरस्तमनः
समुदितमानवाधनमलो भवतो भवतः ॥१॥ प्रणमत तं जिनव्रजमपारविसारिरजो
दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो
दलकमला ननाम हिमधामभया समरुक् ॥२।।
eG
छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org