________________
AMAR
anna
-
श्रीजिनप्रभसूरिविरचितः स्तव: त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिर्हरिवंशविभूषणः । शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो धियाम् ॥
श्रीदेवरत्नसूरिकृतः स्तव: श्रयति यो मुनिपं मुनिसुव्रतं मदनमानहरं धृतसुव्रतम् । स इह जन्मजरामरणाकरे जिनपते ! न पतेद्भवसागरे ।।
श्रीधर्मशेखरगणिकृतः स्तवः श्रेयोऽनेनोऽभवाना रदरमघवतोऽनाशयामाऽसम ह्यः, श्रेयोनेनो भवानाऽरदर मघवतो नाशयामास मह्यः । श्रीपद्माभूरतापाऽयमरणं हततं सुव्रताऽकोपमान - श्रीपद्माभू रतापायमरणहऽततं सुव्रताऽकोपमान ।।
श्रीगुणविजयगणिविरचितः स्तवः भूपालः शिवकेतुकः सुरवरः कल्पेऽथ सौधर्मके, च्युत्वाऽभूच्च कुबेरदत्त उदितस्तुर्ये सुपर्वाऽग्रणीः । पश्चाद्भूपतिवज्रकुण्डल इति श्रीब्रह्मकल्पे मरुद्, वर्माह्वक्षितिपः सुधाऽशनवरः श्रीसुव्रतः पातु वः ।।
. श्रीकुलप्रभकविविरचितः स्तवः ये मातापितृपुत्रबन्धुदयिताद्यास्तत्त्वबुद्धया क्षणं, दृष्टास्तानपि कृत्रिमानिव जवाद् दृष्ट्वा विनष्टानहम् । व्यामूढोऽस्मि भवेन्द्रजालपतितो जातो विलक्षः पुनस्तन्मे दूरमपास्य सुव्रतविभो ! तत्त्वप्रकाशं कुरु ॥
कविश्रीपालविरचितं स्तवनम् श्रीसुव्रत! व्यधार्षीः स्म, महीनतरसं यमम् । अजैषीस्त्वं जनानन्तु - महीनतरसंयमम् ।।
छार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org