________________
श्री सरस्वतीमहापूजन
श्रीवीरनाथेन पुरा प्रणीतं मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वांछितं मे ||३|| यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षाभ्रमणस्य काले । मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वांछितं मे ।। ४।। अष्टापदाद्रौ गगने स्वशक्त्या ययौ जिनानां पदवन्दनाय ।
,
निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वांछितं मे ||५|| त्रिपञ्चसङ्ख्याशततापसानां तपःकृशानामपुनर्भवाय ।
,
1
अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वांछितं मे ||६|| सदक्षिणं भोजनमेव देयं, साधर्मिकं संघसपर्ययेति ।
,
कैवल्यवस्त्रं प्रददौ मुनीनां स गौतमो यच्छतु वांछितं मे ||७|| शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा ।
पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वांछितं मे ।।८।। त्रैलोक्यबीजं परमेष्ठिबीजं, सज्ञानबीजं जिनराजबीजं ।
1
यन्नाम चोक्तं विदधाति सिद्धिं स गौतमो यच्छतु वांछितं मे ।। ९ ।। श्रीगोतमास्याष्टकमादरेण प्रबोधकाले मुनिपुङ्वा ये ।
पठन्ति ते सूरिपदं सदैवा - नन्दं लभन्ते सुतरां क्रमेण ||१०||
आह्वान
1
Jain Education International
आँ क्रौं श्रीं विद्यापीठप्रतिष्ठिता गौतमपदभक्ता देवी सरस्वती अत्र आगच्छ आगच्छ संवौषट् स्वाहा ।।
स्थापन
२२
न आँ क्रौं नी श्र विद्यापीठप्रतिष्ठिता गौतमपदभक्ता देवी सरस्वती अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा ||
संनिधान
आँ क्रौं ह्रीं श्रीं विद्यापीठप्रतिष्ठिता गौतमपदभक्ता देवी सरस्वती मम
सन्निहिता भव भव वषट् ।।
For Private & Personal Use Only
www.jainelibrary.org