________________
खं ता. २नी प्रशस्ति :
वणिजां भरतख्यातो धर्कटानां धरातले । वंशेऽस्ति चारुपत्रश्च सुपर्वैः समलङ्कृतः ॥ १ ॥ सार्द्धद्वादशसंख्येयाः ज्ञातयो नगराभिधाः । बभूवुस्तस्माद्वंशा वटशाखेव विश्रुताः ॥ २ ॥ डिंड्वानकात् समुद्भूता वणिजत्वेऽपि डिंडुहाः । विख्याताः सन्ति सर्वत्र गच्छोऽस्ति तत्पुराभिधः ॥ ३ ॥ आसीत्तस्मिन् वणिग्वंशे नेमाकः पुरुषाग्रणीः । देवश्री वल्लभा तस्य पुत्रैकं द्वे च पुत्रिके ॥ ४ ॥ तदङ्गभूरभूच्चारुः श्रेष्ठी पारसनामकः । पद्मिनी दयिता तस्य सती साध्वी शुभाशया ।। ५ ।। शाकंभरीमण्डलगगनभानुः श्रीधर्मघोषः समजनि प्रबुद्धः । मिथ्यात्वविरतं सद्धर्मनिरतं परमार्हतं पारसकं चकारः ॥ ६ ॥ सम्यक्त्वरत्नविभूषिताङ्गे सर्वज्ञपूजनदानचङ्गे । नेमाकविग्रहजे प्रसिद्ध जाते सदा पूनिणि सड्डिकाख्ये ॥ ७ ॥ जज्ञाते नन्दनौ द्वौ च ताभ्यां सद्धर्मतत्परौ । बोधाकः प्रथमो नाम वाग्भटश्च तथाऽपरः ॥ ८ ॥ बोधाकस्य(स्याऽ)भवद्भार्या मल्हणदेवीति विश्रुता । प्रत्यक्षा कथ्यते आई जिनधर्मैकनिश्चला ॥ ९ ॥ जाता वाग्भटस्येव मदनश्रीः प्रथमा प्रिया । द्वितीयदयिता जज्ञे देवी देसलपूर्वकाः ॥ १० ॥ लाडी साल्ही सुते स्यातां पारसस्य महात्मनः । बालस्याद्विधवा भूयात् लाडी सधर्मवत्सला ॥ ११ ॥ रत्नत्रयवत् संजातं वर्यं तस्याः श्रुतत्रयम् । काकटो नपतिस्तेजा यथासंख्यममी सताः ।। १२ ।। देसलाया सुता जाताश्चतस्रोगुमालयः (?) । प्राच्यप्राची प्रतीची च उदीची च यथाक्रमम् ॥ १३ ॥ लक्ष्मीवल्लक्ष्मीः प्रथमा राजी राजीवलोचना । तृतीया नयना चैव तृर्या कर्पूरिका स्मृता ॥ १४ ॥ काकट: प्रथमस्तेषां य सदा पापसंकटः । विकटो धर्मसंग्राहे कंकटं सत्यभाषणे ॥ १५ ॥