________________
पासडस्य हि भार्याऽभूत् जयश्रीरिति नामतः । तया सुतद्वयं जातं पुत्रिकाद्वितयं तथा ॥ ७ ॥ यथार्थेन स्वनामाऽभूत् कुलधरो धुरि कृती । द्वितीयो देवसिंहाह्वो देवधीगुरुभक्तिभाक् ॥ ८ ॥ पुत्रिका मोहिणि ख्याता सदा धर्मपरायणा । येनोत्तुंगविशालकंबलगिरौ............
.....(?) द्वितीया सोहिणिर्जाता गुरुस्वजनवत्सला ॥ ९ ॥ कुलधरस्याऽपि भार्याऽऽसीत् देवश्रीरिति नामतः । रूपलावण्यसंयुक्तो नरसिंहः सुतोऽभवत् ॥ १० ॥ नरसिंहस्य भार्याऽस्ति नाम्ना लाडीति विश्रुता । कलत्रं देवसिंहस्य देवमतिरिति श्रुता ॥ ११ ॥ तस्याः सुतद्वयं जातं पुत्रिकात्रितयं तथा । आद्यो नयणसिंहाख्योऽपरः पृथिमसिंहकः ॥ १२ ॥ पुत्रिका मयणूनाम्नी द्वितीया भीमिणिस्तथा । तृतीया आल्हका जाता स्वाजन्यगुणवत्सला ॥ १३ ॥ कलत्रं कालियाकस्य धनश्रीरिव देहिनी । तस्याः कुक्षिसमुद्भूतौ पुत्रौ धीणाधरणिगौ ॥ १४ ॥ मइणीति तथा पुत्री हांसिका-सांसुके परे । जगदेवस्य जायाऽस्ति जगच्छ्रीरिति संज्ञया ॥ १५ ॥ तस्याः कुक्षेस्तु संजातास्तनुजास्त्रय इहोत्तमाः । आद्यः क्षेमसिंहस्तु नांगुरश्च वयजलः ॥ १६ ॥ पुत्रिकात्रितयं जज्ञे छाडी केलू च लीलुका । भार्याऽस्ति क्षेमसिंहस्य रूपिणीति सुविश्रुता ॥ १७ ॥ जातं तत्पुत्रचतुर्थ(ष्कं?) लक्षणो हरदेवकः । तृतीयो हरपति म चतुर्थो वेलुकाभिधः ॥ १८ ॥ पूडाभार्या च चाहतु तत्पुत्रः पद्मनामकः ॥ १९ ॥ (?) इत्थं कुटुम्बन समं विचिन्त्य संसारसर्वस्वमनित्यमेव । स्वकीयमातुः परिपुण्यहेतुं श्रीवीरवृत्तं परिलेखयित्वा ॥ २० ॥ पुस्तकं चाऽऽर्पयामास देवसिंहो महामतिः । नन्दताद् यावच्चन्द्रार्क सङ्केन सह सर्वथा ॥ २१ ।। शुभं भवतु ॥