________________
२५२
॥ नवमः सर्गः ॥
विभिन्ना कर्मणां गतिः ॥ ११९ ॥ प्राणभयं सर्वेषां हि महद्भयम् ॥१७४॥
कर्मदायादः स्वयं स्वं कर्म भुज्यते ॥१९४॥ कर्मच्छेदः परिव्रज्यां विना न खलु साध्यते ॥ १९९॥ आसाद्यते तपोदुःखैर्मोक्षोऽनन्तसुखात्मकः । विषयप्रभवैः सौख्यैर्नरको ऽनन्तदुःखदः ॥२०४॥ महतां प्रतिपन्नं हि यावज्जीवमपि स्थिरम् ॥२१७॥ कन्यादानं सकृत् खलु ॥२३१॥
न धर्मो निर्दयस्याऽस्ति ॥ ३३० ॥
वासरे च रजन्यां च यः खादमेव तिष्ठति । शृङ्ग-पुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ॥३५४॥
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
पापा: सर्वत्र शङ्किताः ||६६ || क्षीरपाणमिवाऽहीनामुपकारोऽसतां यतः ॥६८॥
॥ प्रथमः सर्गः ॥
अपकारिष्वपि कृपा सतां किं नोपकारिषु ? ॥७॥ चित्रा हि चित्तवृत्तिः शरीरिणाम् ॥९॥
सहेत कः स्वदारेषु पारदारिकविप्लवम् ? ॥२७॥ अलङ्घ्या भवितव्यता ॥ ४३ ॥
भृगुपातेन वपुरेव हि शीर्यते ।
शीर्यते नाऽशुभं कर्म जन्मान्तरशतार्जितम् ॥५७॥ आदरेण गृहीतं हि किं वा न स्यान्मनस्विनाम् ? ॥६०॥ सम्भोग भूमयोऽपि स्युस्तपसे शान्तचेतसाम् ॥६३॥
Jain Education International
आपोऽपि तप्यन्ते वहितापतः ॥७०॥
उत्तिष्ठति यतो वह्निस्तद्धि विध्यापयेत् सुधीः ॥७४॥ चन्द्राश्माऽकशुतोऽपि नाऽचिर्मुशति जातुचित् ॥७५॥ न स्यात् स्याच्चेस्थिरं न स्याच्चिरं चेत् तत्फलेऽन्यथा । खलस्नेह इव कोधः सताम् ॥७७॥
किमनेन शरीरेण किं वाऽऽहारेण योगिनाम् ? ||८४|| मान्यं हि गुरुशासनम् ॥९३॥
छलान्वेषी हि मन्मथः ॥ ९६ ॥
विषयेच्छा बलीयसी ॥ १०१ ॥
आधिपत्यं हि प्रायोऽन्धङ्करणं नृणाम् ॥११८॥ दुराणीन्द्रियाणि हि ॥१२०॥
अहो ! सर्वङ्कषः स्मरः ॥ १२१ ॥
सत्यो हि विरलाः स्त्रियः ॥ १२४ ॥
पोषकस्याऽपि नाऽऽत्मीयो मार्जार इव दुर्जनः ॥ १२६॥
तिरश्च्चोऽपि हि रक्षन्ति पुत्रान् प्राणानिवाऽऽत्मनः ॥१३८॥
॥ अथ नवमं पर्व ॥
॥ दशमः सर्गः ॥
सिद्धिः स्याच्चिरसाध्याऽपि सहायवशतः क्षणात् ॥ १४१ ॥
॥ एकादशः सर्गः ॥
(द्वितीयं परिशिष्टम्
क्रोध एव महाशत्रुर्यो दुःखं नेह केवलम् । प्रदत्ते किन्तु सततं जन्मलक्षेषु जन्मिनः ॥३४॥ वक्रांऽहि-नासिका - हस्ताः स्थूलोष्ठ-रद-नासिकाः । विलक्षणाक्षा होनाङ्गाः शान्ति यान्ति न जातुचित् ॥३९॥ सर्वज्ञभाषितं चाऽपि सर्वथा नाऽन्यथा भवेत् ||४०|| बलीयसी पुनरियं दुर्लभ्या भवितव्यता ॥८२॥ अप्युपकारं सन्तो दति चेतसि ।
कदापि कुस्वप्नमिव नाऽपकारं स्मरन्ति तु ॥९८॥
यद्वदाम्रवणं सेक्यं कार्यं च पितृतर्पणम् ॥ १४१ ॥ धीमद्भयः को न शङ्कते ? ॥१४८॥ कुतो निद्रा महात्मनाम् ? ॥ १६०॥ प्रायस्तेजोऽनुमानेन जायन्ते प्रतिपत्तयः ॥ १७९ ॥ भोगिनामुपतिष्ठन्ते भोगाः काममचिन्तिताः ॥१८५॥ एकत्राऽवस्थानं सद्विषां कुतः ॥ १८६॥ समये खलु पौरुषम् ॥१९२॥
तापसा ह्यतिथिप्रियाः ॥ १९५ ॥
अन्यथा चिन्तितं कार्य दैवं घटयतेऽन्यथा ॥२३९॥
मायया किं न साध्यते ? ॥२९० ॥
निम्नानां छद्मबाह्यं कुतो जयः ? ||३१२||
हन्त प्रहारिणि हरौ हरिणानां कुतः स्थितिः ? ॥३४६ ॥ स्वामिभक्तिप्रभावो हि भृत्यानां कवचायते ॥ ३५५॥ दविष्ठं हि वाजिनां मरुतां च किम् ? ॥३५७॥ अज्ञाता अपि पूज्यन्ते महान्तो मूर्तिदर्शनात् ॥ ३५८॥ धर्मेणेष्टं हि योजयेत् ॥ ३७५॥
बुद्धिः कर्मानुसारिणी ॥३८५॥
भोगी हि भाजनं स्त्रीणां सरितामिव सागरः || ३९२ || धनिनां सर्वमीषत्करं यतः ||४००||
राजहंसो हि गृह्यति विभज्य क्षीरमम्भसः ॥ ५०२|| उपक्रमेत को नाम स्वतः सिद्धे प्रयोजने ? ||५०४ || कुतः कृतनिदानानां बोधिबीजसमागमः ॥ ५०९ ॥ कालदिष्टाहिना दष्टे कियत्तिष्ठन्ति मान्त्रिका: ? ॥५१०|| पृथ्व्यां पृथ्वीभुजा सर्वः स्थापनीयो यतः पथि ॥५२७॥ योषितः खलु मायया ।
अपरं दूषयित्वाऽपि स्वदोषं छादयन्ति हि ॥ ५४५॥
For Private & Personal Use Only
www.jainelibrary.org