________________
(१७)
विषयः
श्लोकाः | पृष्ठम्
इतो मगधाधीशाय हंसकमन्त्रिणो बोधनपूर्वकं युद्धान्निवर्तनाय निवेदनं, जरासन्धस्य च तिरस्कारः, तदा डिम्भकमन्त्रिणो युद्धकरणपरं वचनम्
२०७-२३१ १०८ जरासन्धस्य स्वसेनानाथेभ्यश्चक्रव्यूहकरणायाऽऽदेशः, मन्त्रि-सेनानीभिश्च तथाकरणं, हिरण्यनाभस्य च चक्रव्यूहसेनानीत्वेऽभिषेकः
२३२-२४१ | १०८-१०९ यदुभिश्च चक्रव्यूहप्रतिद्वन्द्वस्य गरुडव्यूहस्य विरचनं, युयुत्सोररिष्टनेमिनः कृते शक्रेण समातले रथस्य प्रेषणं, समुद्रविजयेन च सेनानीत्वेनाऽनाधृष्टेरभिषेचनम्, युद्धप्रारम्भः
२४२-२६५/ १०९ जरासन्धसैनिकस्तार्क्ष्यव्यूहाग्रसैनिकभञ्जनं, कृष्णेन तेषां स्थिरीकरणं, महानेमिपार्थानाधृष्टिभिः स्वशङ्खपूरणेन परबलक्षोभकरणं, चकव्यूहभञ्जनं च, महानेमिना रुक्मिणं निरस्त्रीकृत्य वध्यकोटिप्रापणं, शत्रुन्तपेन बलीन्द्रात्प्राप्तायाः शक्तेर्महानेमौ प्रक्षेपणं, मातलिवचसा तज्ज्ञात्वा नेमिना महानेमिशरे वज्रसङ्कामणं, तच्छरं च प्रक्षिप्य महानेमिना शक्तेः पातनं, तद्राज्ञश्च निरस्त्रीकरणं, रुक्मिणः सर्वेषामस्त्राणां छेदनं, वधकरणं, तेन सप्तानामपि राज्ञां ततः पलायनम्
२६६-२९५, ११० एवमन्यैरपि यदुपक्षीयैः समुद्रविजयादिभिर्नृपैर्जरासन्धपक्षीयाणां नृपाणां भञ्जनं हननं च, अतस्तेषां परनृपाणां हिरण्यनाभसेनान्यः शरणे गमनम्
२९६-३०० ११०-१११ भीमा-र्जुनाभ्यां रामपुत्रैश्च धार्तराष्ट्राणां विद्रावणं, पार्थेन च दुर्योधनस्य निरस्त्रीकरणं, युधिष्ठिरेण शल्यस्य हननं, भीमसेनेन च दुर्योधनभ्रातृहननं, सहदेवेन च शकुनेः शिरःकर्तनं, नकुलेन उलूकविद्रावणं, द्रौपदेयैश्च दुर्मर्षणादीनां विद्रावणं, पार्थेन जयद्रथहननं, कर्णार्जुनयोर्युद्धं, कर्णस्य च वधः, भीमसेन-दुर्योधनयोयुद्धं, भीमेन च गदया तनिष्पेषणं, तेन कुद्धेन हिरण्यनाभेन यदुसैन्यविद्रावणं, समुद्रविजयात्मजयोर्जयसेनमहीजययोर्वधकरणं च, महानेमिना भगदत्त-तद्गजयोः पातनं, सात्यकिना भूरिश्रवोहननम् अनाधृष्टिना च हिरण्यनाभहननम्
३०१-३७३ | १११-११३ शिशुपालस्य जरासन्धसेनायाः सेनानीत्वेऽभिषेकः, हंसकमन्त्रिणा च समरावनि श्रितस्य जरासन्धस्य यदुसैन्ययोधानां परिचयकारणम्
३७४-३८८ ___ ११३ कुद्धस्य जरासन्धस्य तत्सुतस्य यवनस्य च यदुभिः सह युधे ढौकनं, रामानुजेन सारणेन यवनशिरश्छेदनं, तेन कुपितेन जरासन्धेन बलस्य दशपुत्राणां संहरणं, कृष्णसेनायाः पलायनं, शिशुपालेन कृष्णस्योपहसनं, कृष्णेन शिशुपालस्य शिरश्छेदनम्
३८९-४०४ ११३-११४ एतेन कुद्धस्य जरासन्धस्य यदुसैन्यविद्रावणं, तस्याऽष्टाविंशतिसुतानां रामेण सहाऽन्येषां चैकोनसप्तते: कृष्णेन सह योधनं, रामेणाऽष्टाविंशतेरपि तेषां हननं, तेन कुद्धस्य जरासन्धस्य रामोपरि गदाघात: रामस्य च रुधिरवमनं, कुद्धेन कृष्णेन चैकोनसप्ततेर्जरासन्धपुत्राणां वधकरणम्
४०५-४१९ ११४ मातलिप्रेरितेनाऽरिष्टनेमिना विना कोपं पौरन्दरशङ्खध्मानेन यदुसैन्यस्वस्थीकरणं मातलिद्वारा च रथं भ्रामयित्वा समग्रस्याऽपि शत्रुसैन्यस्य विद्रावणं, क्ष्माभुजां लक्षस्य च भञ्जनं, ततः रुद्ध परसैन्ये नेमे रथभ्रमणं, पाण्डवैश्वाऽवशिष्टानां धार्तराष्ट्राणां हननं, बलदेवस्य च स्वस्थीभूय परसैन्यहननम्
४२०-४३५] ११४-११५ कृष्ण-जरासन्धयोर्युद्धं, सर्वेष्वस्त्रेषु निष्फलेषु जरासन्धेन कृष्णोपरि चक्रक्षेपणं, कृष्णोरसि ताडनं, तस्यैव चक्रस्य कृष्णेन गृहीत्वा जरासन्धोपरि क्षेपणं तच्छिरोलूननं च, जरासन्धस्य चतुर्थनरके गमनम् | ४३६-४५७ अष्टमः सर्गः कृष्णारिनृपाणां विज्ञप्तिपूर्वं नेमिशरणं गमनं, कृष्णेन नेमिगिरा तेषां स्वीकरणं, विविधेषु मगधादिराज्येषु जरासन्धपुत्रादीनां निवेशनं, नेमिनाथेन विसृष्टस्य मातलेः स्वर्गमनं, सर्वेषां च स्वस्वशिबिरगमनम्
१-१२
| ११६ जरासन्धमरणं ज्ञात्वा खेचराणां कृष्णशरणगमनं, प्रद्युम्न-शाम्बयोश्च तैः स्वपुत्रीदानं, वसुदेवादीनामागमनं, युधि मृतानां प्रेतकार्यकरणं, जीवयशसो वह्नौ पतित्वाऽऽत्महननं, सिनपल्लीग्रामस्थाने कृष्णेनाऽऽनन्दपुररचनं, षडभिर्मासैर्भरतार्धसाधनं, कोटिशिलोद्धरणं, देवैर्नृपैश्च तस्याऽर्धचक्रित्वेऽभिषेकः, तदाज्ञया पाण्डवादीनां स्वस्वस्थानगमनं, वासुदेवपरिवारवर्णनम्
१३-४२ ११६-११७ समुद्रविजय-शिवादेव्योर्नेमिनाथस्य विवाहार्थं प्रेरणं, नेमेश्च निषेधः
४३-४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org