________________
तृतीय परिशिष्टम् ॥
हेमचन्द्र-वचनामृतम् ।। द्वितीये पवेणि प्रथमः सर्गः ॥
चिकित्स्यते हि निपुणे-रङ्गोद्भवमपि व्रणम् ॥२७॥ जन्मान्तरानुधावीनि, कर्माणि ऋणवन्नृणाम् ॥६०॥ स्वार्थभ्रशो हि मूर्खता ॥६५॥ ... निश्चिते कार्य, नालसन्ति मनीषिणः ॥१४३।। चक्षुष्मानपि किं कुर्या-दन्धकारे प्रसृत्वरे ॥१५१॥ बालेऽपि हि सुते हन्त !, सिंही स्वपिति निर्भरम् ।।१८९|| गुर्वाज्ञाकरण सर्व-गुणेभ्यो ह्यतिरिच्यते ॥१९४॥ तिष्ठन्त्येकत्र नर्षयः ॥२६४॥
द्वितीयः सर्गः ॥ महापुमांसो गर्भस्था, अपि लोकोपकारिणः ॥१०६॥ सर्व हि शुभमेव स्या-ज्जन्मतोऽपि शुभात्मनाम् ॥१३०॥ देवतानां जन्मसिद्धाः, खलु वैक्रियलब्धयः ॥१७२॥ जायते घृष्यमाणाद्धि, दहनश्चन्दनादपि ॥२३८॥ निष्पद्यन्ते सुमनसां, मनसा हीष्टसिद्धयः ॥३०७॥ एकधाऽनेकधा च स्युः, कामरूपा दिवौकसः ॥३३८॥ तापनीये ह्यलङ्कारे, सुतरां द्योतते मणिः ॥४४०।। सर्वसाधारणी वृष्टि-रिदस्योद्यतस्य हि ॥५३६।।
तृतीयः सर्गः ॥
न केसरिकिशोराणा, पञ्जरे जात्ववस्थितिः ॥७॥ वयो गौण महात्मनाम् ॥८॥ यथाव्याधि हि भेषजम् ॥७६॥ विनयी हि लघुभ्राता, पुत्रादप्यतिरिच्यते ॥८६॥ कोऽल्पहेतोबहु त्यजेत् १ ॥८७|| राज्यादप्यतिसाम्राज्या-च्चक्रवर्तिपदादपि । देवत्वादपि विदुषां, गुरुसेवा गरीयसी ॥८८॥ भावतोऽपि यतिर्यतिः ॥१०॥ सतां ह्यलध्या गुर्वाज्ञा, मर्यादोदन्वतामिव ॥९३।। दासन्ति ह्यन्यमणयः, सर्वे चिन्तामणेः पुरः ॥११०।। पूज्यैरभक्तोऽपि शिशुः, शिष्यते, न तु हीयते ॥१४५।। गोपुच्छलग्नो हि तरे-न्नदी गोपालबालकः ॥१५३|| ० ० ० बलवत्, स्वाम्यवज्ञाभयं सताम् ।।३४९।। ० ० ० ऽऽवश्यकविधि-द्य लडध्यो महतामपि ॥३७३|| निर्धनस्य सुभिक्षेऽपि, दुर्भिक्ष पारिपार्श्विकम् ॥८६६।। प्रायः प्रावृष ऊध्र्व' न, तिष्ठन्त्येकत्र सयताः ।।८८०॥ धर्म धर्मापदेष्टारः, साक्षिमात्र शुभात्मनाम् ॥९०७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org