________________
Book III. THE WAR OF THE CROWS AND THE OWLS. 208 Frame-story.
Tale xi: Prince with serpent in his belly. अतोऽहं ब्रवीमि । शत्रवो ऽपि हितायैव । इति । अपि च ।
शिबिनापि स्वमांसानि। कपोतार्थे महात्मना।
श्येनाय किल दत्तानि । श्रूयन्ते पुण्यकाम्यया ॥१७१॥ तन् नायं धर्मः । यच् छरणागतो हन्यते । इति ॥ ___अथ तस्य वचनम् अवधार्य प्राकारकर्णम् अपृच्छत् । कथय । किम् अत्र मन्यते भवान् । सो ऽब्रवीत् । देव । अवध्य एवायम् । यतो रक्षितेनानेन कदाचित् परस्परप्रीत्या 6 कालः मुखेन गच्छति । उक्तं च ।
परस्परस्य मर्माणि । ये न रक्षन्ति जन्तवः ।
त एव निधनं यान्ति । वल्मीकोदरसर्पवत् ॥१७॥ अरिमर्दनो ऽब्रवीत् । कथम् एतत् । प्राकारकर्णः कथयति ॥
॥ कथा ११॥ अस्ति कस्मिंश्चिन नगरे राजा देवशक्तिर् नाम । तस्य च पुत्रो 12 जठरवल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं धीयते । अथासौ राजपुत्रो निर्वेदाद् देशान्तरं गतः । कस्मिंश्चिन नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर 15 नाम राजास्ते । तस्य च वे दुहितरौ यौवनस्थे तिष्ठतः । अथ तयोर् एका प्रतिदिवसं पितुः पादान्तिकम् आगत्य । विजयस्व महाराज । द्वितीया तु । विहितं भुत महाराज । इति ब्रवीति । 18 नच् छ्रुत्वा प्रकुपितो राजाब्रवीत् । भो मन्त्रिणः । एनां दुष्टभाषिणी कुमारिकां कस्यचिद् वैदेशिकस्य प्रयच्छत । येन विहितम इयम् एव भुङ्क्ते । अथ । तथा । इति प्रतिपद्याल्पपरिवारा सा 1 कुमारिका मन्त्रिभिस तस्य देवकुलाश्रितराजपुत्रस्य प्रतिपादिता।
सापि हृष्टमानसा तं पतिं देववत् प्रतिपादाय चान्यविषयं 4 गता । ततः कस्मिंश्चिट् दूरतरनगरप्रदेशे नडागतटे राजपुत्रम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org