SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् 'सैहिकेयान्जयन्शौर्याद्योऽजैषीत्यूषणं श्रिया । स गौर्जरेवंथाऽऽगँच्छत्साहिश्रीमदकब्बरः ॥१२३॥ युग्मम् ॥ (१) पूर्वस्याम् । (२) पश्चिमायाम् । (३) स्वप्रतापम् । (४) अतिशायिनम् । (५) बिभ्रत् । (६) लक्षशः । (७) अश्वान् । (८) नृपाणाम् । (९) लक्ष्मीम् ॥१२२॥ (१) सिंह-व्याघ्रान् । (२) पराक्रमात् । (३) जयति स्म । (४) रविम् । “नमसितुमना यन्नाम स्यान्न सम्प्रति पूषण" मिति नैषधे । रविस्तु प्रतीच्यां मन्दायमानमहाः सप्ताश्वः चन्द्रस्य श्रियं दिशति । राहोर्बिभेति । (५) गूर्जरदेशेषु । (६) तस्मिन्समये । (७) आगतः ॥१२३॥ प्रतीच्यामपि स्वप्रतापं वहन्, पुनर्जात्यतुरङ्गान् दधन्, पुन राज्ञां भूपानां श्रियं गृह्णन्, पुनः सिंहिकाया अपत्यानि केसरिणो जयन् । सूर्यस्तु प्रतीच्यां मन्दमहा: सप्ताश्वः चन्द्रस्य श्रियं दिशन् स्वर्भाणोः सकाशात्पराभवं लभमानः । अतः स सूर्यं जयन् अकब्बरपादसाहिगूर्जरमण्डल आगच्छति स्म ॥१२३१२४।। 'साहिना सार्द्धमभ्येयः 'प्राच्यां केऽपीह नैर्गमाः । शर्वरीसार्वभौमेन नभोमार्गे ग्रहा इव ॥१२४॥ (१) अकब्बरेण । (२) समम् । (३) आगताः । (४) प्राग्भवाः । (५) वणिजः । (६) चन्द्रेण । (७) गगनाध्वनि ॥१२४॥ साहि० । साहिसार्द्ध वणिज आगच्छन्ति स्म ॥१२५॥ 'तेष्वा( ऽप्या )सन् शासने जैने लीना मीना इवाऽम्बुनि । स्थानसिंहादिमा मान्या अमात्या इव भूपतेः ॥१२५॥ (१) वणिक्षु (वणिजः) । (२) जिनशासने । (३) एकाग्रमानसाः । (४) मत्स्याः । (५) जले । (६) स्थानसिंहप्रमुखाः । (७) माननार्हाः । (८) प्रधानाः - सचिवाः ॥१२५॥ श्रीस्थानसिंहादिमा इभ्या जिनशासनभक्ता आसन् ॥१२६।। अरुन्तुदं कुपक्षाणामिवाऽऽसेचनकं सताम् । 'परिव्रज्योत्सवं कर्तुं कोङ्क्षन्तो मेघजीमुनेः ॥१२६॥ 'निशितायसशल्यानि हदि मिथ्यादृशामिव । आनयन्ति स्म ते तूर्याण्यंकब्बरमहीहरेः ॥१२७॥ युग्मम् ॥ (१) मर्मव्यथकम् । (२) कुमतीनां दृशाम् । (३) तृप्तिकारि । "तदासेचनकं यस्य दर्शनादृग् न तृप्यति" । (४) सुदृशाम् । (५) दीक्षामहम् । (६) इच्छन्तः ॥१२६॥ 1. गुर्जरेष्व० हीमु० ।। 2. इति प्राच्यश्राद्धाः हील० । 3. इति वाद्यानयनम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy