________________
२६५
अष्टमः सर्गः ॥ (१) निजवक्रगत्या । (२) अवगणितः । (३) शेषनागः । (४) देवीम् । (५) शब्दायमान
नूपुरमेव कृतं शरीरं येन । (६) प्रसन्नीकरोति । (७) पदपद्धे विलग्नः ॥३०॥ हील० स्वकुटिलगतेनाभिभूतः शेषनागो रणज्झणितिरावकृन्नूपुरशरीरेणाश्रित्य प्रसन्नीकरोति ॥३०॥ हीसुं० यया 'जग'ज्जित्वरया श्रियां हिगुल्फः परां कोटिमवापितः सन् ।
"पराक्षिलक्ष्यत्वमयांबभूव न चक्रवर्ती च "कदाचनापि ॥३१॥ (१) भुवनजयनशीलया । (२) चरणग्रन्थिः -घुटकः । (३) उत्कृष्टकाष्ठाम् । (४) अन्येषां नयनयोर्दृश्यत्वं गोचरत्वमिति । वैरिणां दृग्गोचरतां जगाम । "अय गता''वित्यस्यापि रूपत्रयं
यथा- अयांचक्रे अयामासायांबभूव । (५) कस्मिन्नपि प्रस्तावे ॥३१॥ हील० यया स्वशोभयोत्कर्षतां प्रापिते छुटक: परचक्षुर्गोचरतां न गच्छति स्म । यथा चक्रवर्ती जैत्रश्रियोत्कृष्टः
सन्परेषां शत्रूणां नेत्रगोचरत्वं नायते ॥*३१|| हीसुं० यज्जङ्घयाधःकरणादु'दीतव्रीडातिरेकादिदमीयगुल्फः ।
मन्ये 'न्यमज्ज'नवनिर्यदर्चिरर्ण:प्रपूर्णीभवदंहिशोणे ॥३२॥ (१) नीचैविधानात्तिरस्करणाद्वा । (२) उत्पन्नलज्जातिशयात् । (३) देवीधुंटकः । (४)
बुब्रूडः । (५) अभिनवनिःसरज्जयोतिर्जलप्रपूर्णपदहूदे ॥३२॥ . हील० जङ्घातोऽधस्तात्स्थितत्वाल्लज्जया गुल्फः नवीनानि निर्यन्ति अर्चीषि एवार्णासि जलानि तैः पूर्णे
चरणहूदे ब्रूडति स्म ॥३२॥ हीसुं० श्रीमज्जिनाधीशमताधिदेव्या जङ्ग्रे विभूषा मनघे दधाते ।
किमु प्रगल्भकमनामधेयवृन्दारको/रुहयो: 'प्रकाण्डे ॥३३॥ (१) शासनदेव्याः । (२) निष्पापे प्रशस्ये । (३) प्रकृष्टयोश्चरणावेवाभिधानं ययोस्तादृशयोः
कल्पसालयोः । (४) वृक्षस्कन्धौ । प्रकाण्ड: पुंक्लीबयोः ॥३३॥ हील० श्रीमच्छासनाधिष्ठात्र्या जङ्के भातः । उत्प्रेक्ष्यते । प्रकृष्टौ क्रमौ तावेव नामधेयं ययोस्तादृशयोः
कल्पवृक्षयोः प्रकाण्डे मूलाच्छाखावधिप्रदेशौ इव ॥३३॥ हीसुं० यस्याः 'प्रकाण्डस्फुरदग्रजङ्घासदृक्षलक्ष्मीस्पृहयालवः किम् ।
विषह्य भारं भवनव्रजानां स्तम्भा मनुष्यानुपकुर्वते स्म ॥३४॥ (१) वृक्षस्कन्धाविव शोभमानयोर्जयोस्तुल्यशोभाकाङ्क्षाः । (२) गृहगणानाम् । (३)
उपकारं कुर्वन्ति ॥३४॥ हील० यस्याः प्र०। स्थम्भा गृहवीवधं सहित्वोपकारं कुर्वन्ति स्म । उत्प्रेक्ष्यते । गण्डिसदृशजङ्घाश्रीशोभार्थिनः
॥३४॥
1. गज्जैत्रतमश्रि० हीमु० । 2. तु० हीमु० । 3. इति गुल्फः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org