________________
१२६
'श्री हीरसुन्दर' महाकाव्यम् हील० चमू । यथा सेनाभिः पतिः सेव्यते तथा देवीभिः सेव्यमानं यं दृष्ट्वा ? किं स्त्रीयुक्तोऽसौ, इति
संशयं कुर्वाणः श्राद्धः ताभिरेव शिक्षितः ॥७४॥ हीसुं० 'तदीयपट्टाम्बरभानुमाली श्रीमानतुङ्गः श्रमणेन्दुरासीत् ।
य ३औजिढत्साधुजना निजाज्ञां 'नाथान्पृथिव्या इव सार्वभौमः ॥७४॥ (१) मानदेवसूरिपट्टाकाशभास्करः । (२) मानतुङ्गसूरिः । (३) वाहयति स्म । (४)
स्वस्याज्ञाम् । (५) नृपान् । (६) चक्रवर्ती ॥७४॥ हील. तदी०। तत्पट्टे श्रीमानतुङ्गसूरिर्जातः । यः साधून्निजाज्ञां वाहयामास । यथा चक्रवर्ती नृपतीन् निजाज्ञां
ग्राहयति ॥५॥ हीसुं० 'भक्तामराह्वस्तवनेन सूरिर्बभञ्ज योऽङ्गान्निगडान्नशेषान् ।
"प्रवर्त्तितामन्दमदोदयेन गम्भीरवेदीव "मरहीमघोनः ॥७५॥ (१) भक्तामरनामस्तोत्रेण कृत्वा । (२) निजशरीरादष्टचत्वारिंशत्शृङ्खलाः । (३) भनक्ति स्म । (४) प्रवाहमानातिशायिमदवारिप्रादुर्भावेन । (५) राज्ञः । (६) करी । “त्वग्भेदाद्रुधिर
श्रावादामांसव्यथनादपि । संज्ञां न लभते यस्तमाहुर्गम्भीरवेदिनम्" ॥ हील० भक्ता०। यो भक्तामरस्तोत्रेण निजाङ्गलग्नानष्टचत्वारिंशत् शृङ्खलान् भनक्ति स्म । यथावमताङ्कुशः
राज्ञष्क(: क)री मदाविर्भावात् श्रृङ्खलान् त्रोटयति । "त्वग्भेदाद्रुधिरश्रावादामांसव्यथनादपि । संज्ञां
न लभते यस्तमाहुर्गम्भीरवेदिनम्" ॥७६||* हीसुं० श्रीमानतुङ्गष्क(: क)रणेन भक्तामरस्तुतेस्तं 'क्षितिशीति( त )कान्तिम् ।
चकार 'ननं फलपुष्पपत्रभारेण यद्वत्फलदं वसन्तः ॥७६॥
(१) राजानम् । (२) नमनशीलम् । (३) वृक्षम् ॥७६॥ हील० श्रीमानतुङसूरिः राजानं ननं चकार । यद्वद्वसन्तर्तुः फलभारेण वृक्षं नम्र निर्माति ॥७७॥ हीसुं० भयादिमेनाथ 'हरस्तवेन यो 'दुष्टदेवादिकृतोपसर्गान् ।
श्रीभद्रबाहुः स्वकृतोपसर्गहरस्तवेनेव 'जहार "सङ्घात् ॥७७।। (१) नमिऊणनाम्ना भयहरस्तोत्रेण । (२) दुष्टसुरनिर्मितोपसर्गम् । (३) श्रीभद्रबाहुस्वामीव
निजरचितोपसर्गहरस्तवनेनेव (४) निवारयति स्म । (५) संघमध्यात् ॥७७॥ हील० भयादि०। यथोपसर्गहरस्तोत्रेण भद्रबाहुस्वामी सङ्घादुपसर्गान् जहार तद्वदयमपि “नमिऊण पणय."
इत्यादि स्तोत्रेण हरति स्म ॥७८।।
1. ०तनश्रम० हीमु०। 2. करी धरेन्दोः हीमु०। 3. इति श्रीमानतुङ्गसरिः २०. हील०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org