________________
सटीकजंबूद्वीपसग्रहणी
५५ द्युित्प्रभगजदन्ते
९ ५९ सुरगिरौ ५६ निषधवर्षधरे
९ ६० चुल्लहिमवद्वर्ष परे ५७ नोलवद्वर्षधरे
९ ६१ शिखरि वर्षधरे ५८ माल्यवद्गज दन्ते
९ सर्वसङ्ख्या पवनानां ६१, कटानां ४६७ इति गिरिकूटानि
अथ भूमिकूटानि दर्शयत्येकगाथयाचउतीसं विनयेसु उस्सहकूडा अट्ठमेरुजंबुम्मि ।
अट्ठय देवकुराए हरिकूड हरिस्सहे सट्ठी ॥ १७ ॥ चतुस्त्रिंशत्सङ्ख्यविज येषु चक्रीजेतव्येषु ऋषभकटानि, अष्ट मेौ, अष्ट जंबूवृक्षे, अष्टौ च देवकुरुषु हरिकूटहरिस्सहौ च षष्ठिः । अयं भावः । भरतादिषु चतुस्त्रिंशत्सु विजयेषु प्रत्येकमेककं ऋषभकटं, तत्र भरते गङ्गाप्रपात कण्डप्रतीचीनं सिन्धुप्रपातकुण्डप्राचीनं तयोरन्तरे इत्यर्थः । चुल्लहिम वद्दे क्षणपार्श्व नेतम्बान्तिकं ऋषभ संज्ञं कूटमस्ति । तच्चाष्टो योजनान्युच्च द योजने महीमग्नं चारुगाल' ङ्गलसंस्थितं पञ्चविंशतिर्योजनानि साधिकानि साधिकानि मूलपरिक्षेपोऽस्य, साधिकानि तानि अष्टादश च मध्ये, साधिकानि द्वादश शिरसि । द्वादशयोजनान्यस्य मूल व्यासायामो, मध्ये ऽष्टो योजनानि, मूर्ध्नि चत्वारि । तानि मतान्तरे सप्तत्रिंशद्योजनानि साधिकानि मूलपरिक्षेपः, साधि कानि तानि पञ्चविंशतिमध्ये, साधिकानि द्वादश शिरसि । इद च मतद्वयमपि जंबूद्वीपप्रज्ञप्तिसूत्रे । ननु सूत्रशब्दव्याख्यानावसरे प्रागेव सूक्तसूतादिव्युत्पतिविचारप्रस्तावे श्रतस्य सर्वमूलकत्वमावेदितं एवं च सति तुल्यातुल विकलविमलकेवलालोकभाजां सर्वेषामप्यर्हतामेकमेव मतं तत्कथं जंबूद्वीपप्रज्ञप्तिसूत्रादो मत न्तर भेदः समुपलभ्यत, इति चेत् , सत्यं दुर्भिक्षदूषितकालविस्मृतिश्रुतस्य छद्मस्थिकोपयोगेन सञ्चयने वचनाभेदस्य सहेतुकत्वात् । तथाहि देवद्धिगणिस्कन्दिलाचार्यावसरे दुर्भिक्षपीडितकालत्वात् गणनाभावतः साधुसाध्वीनां तं विस्मृतिपथमयात् ततः सजाते सुभिक्षे वल्लभ्यां मथुरायां च विस्मृतसूत्रार्थघटनाकृते सङ्घस्य सङ्गमो बभूव । तत्र वल्लभ्यां मिलिते सङ्घ क्षमाश्रमणोपपदाः श्रमणादिचतुर्विधसङ्घाधिपतयः सुविहितसुगृहतनामधेया देवधिगणयोऽभवन् । मथुरायां च सङ्गते विषमविषयाशीविषविषविलुप्त जीवनजन्तुजातजाङगुलीमन्त्रायमाणा आचार्यप्रवराः स्फन्दिलाचार्या अग्र्या बभूवुः । ततस्तयोः सङ्घयोविस्मृतश्रुतस्मरणे क्वचित् क्वचिद्वाचनाभेदः समजायत, भवेदेव विस्मृत चरणे द्वयोरपि पुरुषयोर्वस्तु प्रति विसंवादः । नन्वन्त्वेवं कथमे कस्य महतः प्रत्ययमवष्टभ्यैक एव पाठो नोररीकृत इति चेन्मैवं छद्मस्थधिया निर्णतुमशक्यत्वेन आज्ञाव्याकोपस्य महापायनिबन्धनत्वमिति मन्यमानानां पापभीरूणां गीतार्थानां नहि नामानाभोगछद्मस्थस्येह कस्यचिन्नास्ति यस्माज्ज्ञानावरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org