________________
सटीकबूद्वीपसङग्रहणी
९३
अथ प्रकरणार्थमुपसंजिहीर्षु रुक्तार्थमधिकृत्याह । खंडाई गाहाहि दसहिं दारेहिं जंबुद्दीवस्स । संघयणी सम्मत्ता रइया हरिभद्दसूरीहिं ॥३०॥
खंडाई गाहाहिति खण्डादिगाथाभिः दसहिति दशभिः दारेहिति द्वारै : जंबुद्दीवस्सत्ति जंबूद्वीपस्य, संघयणित्ति सड्ग्रहणी, सम्मत्तंति समाप्ता, रइयत्त रचिता, हरिभद्दसूरिहिति हरिभद्रसूरिभिः । इति पदसंघटना । अयं भावः । खंडा जोयणवासा इत्यादि द्वितीयगाथात आरभ्यैकोनत्रिंशत्तम सम्वेवि पब्धयरा इत्यादिगाथापर्यन्ताभिरष्ट वितिसडख्याभिर्गाथाभिः परिकीत्तितानि दशसङ्ख्यकानि द्वाराणि । तेषु परिकीर्तितेषु सन्सु व्यावर्णितस्वरूपजम्बूवृक्षोपलक्षितस्य सकलद्वीपसमुद्रसंचलितस्य प्राग्प्रतिपादितपदार्थसार्थपरिकरितस्य जगतीपरिवेष्टितस्य चतुरिसंवलितस्य जम्बाख्यद्वीपस्य जगतीवर्णकश्चायं जगतीनामप्राकारः तथा चोक्तप्राकार आगमे ख्यातो जगतीत्यपराख्यया । अयं चाष्टयोजनोच्च: द्वादशयोजनविशालमूलः । यदुक्तं - " धेनुपुच्छाकृतिः सोऽष्टी योजनानि समुच्छितः । योजनानि द्वादशास्य मूले विस्तार आहितः ।" यत उक्तं-“मूलादुत्पत्यते यावद्धनु:क्रोशादिकं किल । मूलव्यासस्तावतोनस्तत्र तत्रास्य जायते ॥१॥" यथा “मूलादुर्ध्व क्रोशयुगे व्यतीते तत्र विस्तृतिः । सार्धरुद्रयोजनानि सर्वत्रैव विभाव्यताम् ॥२॥" "एवं मूलादुत्क्रान्ते योजनानां चतुष्टये । मूलव्यासे चतुरुनः स्याद् विस्तारोऽष्टयोजनः ॥३॥" "तथास्य मूर्ध्नि पूर्णेषु योजनेषु किलाष्टसु । मूलव्यासेऽष्टभिन्यूने व्यासोऽब्धिमितयोजनः ।।४॥" यतः ऊर्च मात्रया मात्रया हीयमानः, हस्तं गते हस्तः धनुगते धनुः, क्रोशं गते कोशः, यावत् योजनं गते सति योजनमेकं हीयते, द्वयोर्गतयो₹ हीयेते, एवं चतुर्दा योजनेषु गतेषु अटयोजनविशालमध्यः चतुर्योजनविशालोपरिमभागः । ऊर्वीकृतगोलाङ्गलाकारा सर्वतो वचरत्नमयः मणिरत्नभित्तिः वैडूर्यरत्नमयस्तम्भान्वितः, लोहिताक्षरत्नमयशङ्कयुतः स्वर्णरूप्यमयतल: आकाशवन्निमलः, म्रक्षितः, रजोमलकदमविवर्जितः, छायावरणरहितः, निरुपघातकान्तिः, सोद्योतः, दर्शनीयः मनोज्ञोऽस्ति अस्य वोपरिमभागः जम्बूद्वीपसन्मुख जालकापरिवेष्टितो द्विहि क्र शोच्छितपञ्चशतधनुविशाल अर्धक्रोशायत नानाविधमण्यवे पतिदर्शनीयः । इयं च जगतीमध्यभागे वर्तते गवाक्षवलयैः परितः परिकरिता । इदं च जम्बूद्वीपप्रज्ञप्तिवृत्त्यभिप्रायेण, अस्य प्राचीनवृत्तौ तु जगत्या उपर्युक्तमिदं गवाक्षवलयं, तत्त्वं तत्त्वविदो विदन्ति । अस्याश्चोपरिमध्यभागे एका महती अधोवज्रमयी उपरिष्टाद्रिष्टरत्नमयी मध्यदेशे च सर्वरत्नमयी वज्रस्तम्भस्वर्णरूप्यफलकोपशोभिता नरकिन्नरगन्धर्ववृषोरगावकरिनानाविधचित्रचित्रिता स्थाने स्थाने सर्वरत्नमयपद्मोपशोभिता पद्मप्राधान्यान्नाम्ना पद्मवरवेदिका पार्श्वयोर्वनखण्डपरिकरिता देवक्रीडावासा वर्त्तते । इति समासतो जगतीवर्णनं, व्यासतो जिज्ञासुभिजम्बूद्वीपप्रज्ञप्तिजीवाभिगमक्षेत्रसमासटीकालोकप्रकाशादयोऽवलोकनीयाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org