________________
सटीकजंबूद्वीपसइग्रहणी
तइए पनरिक्कारसि चउत्थए पुण अट्ठारसगणउआ । जोयण बावीस सया तेरहिया पंचम चउक्कं ॥२॥ पणवीस इगुणतीसा छटेचरमे अडवीस पणयाला । परिही अंतरदीवा सत्त चउक्काण नायव्वा ॥३॥" उक्तञ्च - " हिमगिरि निगायपुव्वावरदाढाविदिसि संठिया लवणे । जोयण तिरुएर्गतुं तिन्निसए वित्थरायामा ॥१॥ वेइयवणखंडजुया चउ अंतरदीव तेसि नामाई । एगोरुगआभासियवेसाणिय नाम लंगूली ॥२॥ एसिं परओ चउपणछसत्तअडनवजोयणसए। सुहयकंनागोकंना सक्कुलीकंना ॥३॥ आयंसगढिमुहा अओमुहा गोमुहा चउरदीवा । अस्समुहा हत्थिमुहासिंहमुहा तहय वग्घमुहा ॥४॥ तत्तो य अस्सकन्ना हस्थियकन्नाय कन्नपावरणा उक्कामुह मेहमुहा विज्जुमुहा विज्जुदंता य ।।५।। घणदंतलट्ठदंता निगूढदंता य सुद्धदंताय । इय सिहरम्मि विसे अट्ठावीसा चउद्दीवा ॥६॥"
सर्वेऽपि मिलिता: षट्पञ्चाशत्सङ्ख्या भवन्तीति । एतद्गता मनुजा अपि एतन्नामानोऽभिधीयन्ते उपचारात् तास्थ्यात्तद्व्यपदेशो यथा मञ्चाः क्रोशन्ति, पञ्चालदेशनिवासिनः पाञ्चाला व्याख्यायन्ते । एषु निवासिनो युगलिका आदिमसंहननयुताः समचतुरस्राकृतयः सकलाङ्गोपाङ्गसुन्दरा द्वात्रिंशल्लक्षणलक्षिताः स्वभावत एव सुगन्ध्याननाः स्वल्पक्रोधमानमायालोभाः सन्तोषजभाज ऋजुत्वमृदुत्वयुताः,सत्यपि ममतानिबन्धने रत्नकाश्चनमुक्ताफलादौ चित्ताहादविधायिनि ममत्वाहंकारविकलाः, सत्यपि हयगजोष्ट्रगोमहिषाधुपभोगपरिकरे तदुपभोगपराङ्गमुखाः चरणचारिणः सर्वतो विगतवैरानुबन्धाः तापादिव्याधियक्षभूतपिशाचादिग्रहव्यसनमार्याद्युपनिपातरहिताः परस्परस्वामिसेवकभावविकला: प्रासादादिसंस्थानकल्पद्रुमनिवासिन उपद्रवविधायिदंशमशकमत्कूणयूकामक्षिकादिविकलक्षेत्रत्वात्तदुपद्रवहीना व्यालव्याघ्रशार्दूलादिसद्भावे क्षेत्रस्वाभाव्यात्तद्बाधाबिकलाः । तेऽपि च व्यालादयोऽन्योन्यं घात्यघातकभावविकला भवन्ति । तृतीयारकवदत्रापि युगलिकानां चतुःषष्ठिसडख्यानि पृष्टकरण्डकानि, दिनान्तरे चाहारग्रहणं, आहारोऽपि पूर्ववच्छाल्यादिधान्यसद्भावेऽपि भूमिमृत्सुरद्रुमकुसमफलानि च तथाहिं उत्पद्यन्ते खलु तत्रापि स्वभावत एव गोघूमशालिमुद्गमाषादीनि धान्यानि किन्तु न ते युगलिकास्तान्युपभुञ्जते । याऽपि तत्र मही सेक्षुसितोपलादितोऽनन्तगुणमाधुर्यवती योऽपि च सुरद्रमकुसुमफलानामास्वादः स च चक्रीभोजनादप्यधिकगुणः यदुक्तमागमे-" तेसि णं भंते पुप्फफलाणं केरिसए आसाए पन्नते ? गोयमा ! से जहा नामए रंनो चाउरंत चक्कवट्टिस्स कल्लाणे भोयणजाए सयसहस्सनिफ्फन्ने वन्नोववेए गन्धोववेए रसोववेए फासोववेए आसायणिज्जे विस्सायणिज्जे दप्पणिज्जे मयणिजे सव्विदगायपल्हायणिज्जे आसाएणं पन्नत्ते इत्तोहिअ इट्टतराए चेव पन्नत्ते" एकोनशीतिदिनानि अपत्यपालना, अष्टशतधनूंषि शरीरोच्छ्यत्वं, पल्यासङ्ख्येयभागप्रमाणमायुः अल्पकषायित्वादल्पप्रेमानुबन्धित्वाच्च स्वर्गगामित्वम् । उक्तं चागमे – “ एएसु जुगलधम्मा धणुसयअट्ठसिया परमरूवा पल्लअसंखिज्जाऊ गुणसी दिणवच्चपालणया ॥१॥ चउसट्टी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org