________________
सटीक जंबूद्वीपसग्रहणी
एवमन्येऽपि बहवः सिद्धा ये तत्र साधवः । कालेन गच्छता तेऽत्र ग्रन्थेन कथिता मया ॥ १० ॥ येषां कृतां तीर्थे सिद्धाकोटिरनूनका । तान्येव कथितान्यत्र सेयं कोटिशिला ततः ॥ ११ ॥ चारणश्रमणैः सिद्धयक्षैदेवासुरैस्तथा । तद्भक्त्या वन्द्यते नित्यं तीर्थं कोटिशिलाभिधम् ॥१२॥
ताब जम्बूद्वीपे चतुस्त्रिंशत्सङ्ख्या भवन्ति । धातकीपुष्करार्धयोः प्रत्येकं द्विगुणितास्ता अष्टषष्टिसङ्ख्या ज्ञेया इति । सर्वाश्च मिलिताः सप्तत्युत्तर कशतसङ्ख्या भवन्ति कोटिशिलाः ।
षट्पञ्चाशदन्तद्वपवक्तव्यता चेयम् । लवणसमुद्रस्य अन्तर्मध्ये भवा आन्तद्वीपास्ते च षट्पञ्चाशत्सख्यास्तथाहि - इह हि जम्बूद्वीपे भरतोदी चीनस्थ हिमवद्गिरे: पर्यन्तयोः प्रत्येकं ऐशान्यामाग्नेय्यां च द्वे, नैऋत्यां वायव्यां च द्व दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येकं सप्त सप्त अन्तपाः । तेषु प्रथमं चतुष्कं जम्बूद्वीपजगत्यास्त्रिशतयोजनान्तरितं त्रिशतयोजनविस्तारवच्च, द्वितीयं चतुष्कं जगत्याश्चतुः शतयोजनान्तरितं तावद् विस्तारवच्च एवमग्रेऽपि शतशतवृद्धयः भावनीयास्तथाहि तृतीयं जगत्याः पञ्चशतयोजनान्तरितं तावद्विस्तारवच्च, चतुर्थं चतुष्कं च जगत्याः पातयोजनान्तरितं तावदूविस्तारवच्च, पञ्चमं चतुष्कं जगत्याः सप्तशतयोजनान्तरितं तावद् विस्तारवच्च, षष्ठं चतुष्कं जगत्या अष्टशतयोजनान्तरितं ताप विस्तारत्रच्च, सप्तमं च चतुष्कं जम्बूद्वीपजगत्या नवशतयोजनान्तरितं नवशतयोजविस्तारच्च एवमष्टाविंशतिसडख्या अन्तद्वीपा भवन्ति तद्यथा ऐशान्यां सप्ताग्नेय्यां सप्त नैर्ऋत्यां सप्त वायव्यां च सप्त । तन्नामानि चैवं - ऐशान्यां एकोरुक - हयकर्णादर्शमुखहयमुखाश्वकर्णेरुका मुख-घनदन्ताभिख्याः । एवं आग्नेय्यां तथा आभासिकगजकर्ण मेण्ट्मुखहस्तिमुखहरिकर्णमेघमुखष्ट दन्ताभिधाः । नैऋत्यां वैषाणिकगोकर्णायोमुखसिंहमुखाकर्णक विद्युन्मुखगूढदन्तसंज्ञ |ः । वायव्यां च लाङ्गलिकशष्कुलीकर्णगोमुखन्याघ्रमुख कर्णप्रावरणविद्युद्दन्तशुद्धदन्ताभिधानाः । एवं ऐरवतदाक्षिणात्यशिखरिणः प्रत्येकं शान्यां आग्नेय्यां च द्वे, नैऋत्यां वायव्यां च द्वे दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येक सप्त सप्त अन्तपाः । एवं चत्र मिलिता अष्टाविंशतिसङ्ख्या भवन्ति तत्स्त्ररूपविशालाभिधानादिपूर्ववत् । एते सर्वेऽपि पद्मवरवेदिकावनखण्डपरिकरिता, एषां परिधिस्वरूपमिदं तथाहि प्रथमचतुष्कस्य नवशतकिञ्चिन्न्यूनै कोनपञ्चाशयोजन परिमिता परिधिः । द्वितीयचतुष्कस्य द्वादशशतपञ्चषष्ठियोजनपरिमितः परिक्षेपः । तृतीयचतुष्कस्यैकादशोत्तरपञ्चदशशतयोजन परिमितः परिरयः । तुर्यचतुष्कस्य सप्तनवत्युत्तराष्ट्रादशशतयोजन परिमिता परिधिः । पञ्चमचतुष्कस्य त्रयोदशाधिकद्वाविंशतिशतयोजनपरिमितः परिक्षेपः । षष्ठचतुष्कस्यैकोनत्रिंशदुत्तरपत्रिशतिशतयोजनपििमतः परिरयः । सप्तमचतुष्कस्य पञ्चचत्वारिंशदुत्तराष्टाविंशतिशतयोजन परिमिता परिधिः तथा चोक्तं"सोलुत्तरतिसयमुयं सपदमपरिहिं वरावर चउक्कं । पढमे नवगुणवन्ना सा बीए बारपणसट्टी ॥१॥
1
१२
Jain Education International
For Private & Personal Use Only
८९
ALLA
www.jainelibrary.org