________________
सटीकजंबूद्वीपसग्रहणी
चोदीच्यां । तत्र दाक्षिणात्येषु अष्टसु विजयेषु प्रत्येकं गङ्गासिन्याख्ये द्वे द्वे, एवं ता अपि षोडश । उदीचीनेषु चाष्टसु विजयेषु प्रत्येकं रक्तरक्तवत्यभिधे द्वे द. ता अपि षोडश । सर्वाः सम्मील्याष्टत्रिंशशन्महानद्यः । तासु प्रत्येक चतुर्दशसहस्रपरिवार तथा च सर्वासां परिवारसम्मीलने पञ्चलक्षद्वात्रिंशत्सहस्री नदीनां सीतोदायां निपतति । एवमेव नीलवन्केसरिद्रहदाक्षिणात्यद्वारान्निर्गता सीता उत्तरकुरुषु आगच्छन्ती नीलवदादिपञ्चद्रहान् द्विधाकुर्वन्ती भद्रशालवनमागच्छन्ती मेरोद्धियोजनान्तरिता प्राचीनविदेहाभिमुख वलन्ती माल्यवद्गजदन्तनगं भित्त्वा प्राचीनविदेहं द्विभागीकुर्वन्ती एकैकस्माद् विजयादष्टाविंशतिसहस्रनदीपूरयन्ती तथा च षोडशविजयेभ्यश्चतुर्लक्षाष्टचत्वारिंशत्सहस्रनदीपरिवृता, [तथा चतुरशीतिसहस्रपरिवारयुताभिः षइभिर्विजयच्छेदनीभिर्नदीभिः पूरयन्ती सर्वाः सम्मील्य पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिकरिता जंबूद्वीपप्राचीनस्थविजयाभिधद्वाराधो जगती भित्तोभयोः पार्श्वयोः पद्मवरवेदिका वनखण्डपरिकरिता प्राचीनलवणाम्बुराशिं सङ्गच्छति । अत्रापि दाक्षिणात्यप्राचीनविदेहस्य प्रत्येकं विजयेषु गङ्गासिन्ध्वभिधे द्वे द्वे सरिती, उदीचीनविदहेषु च रक्तारक्तवत्यभिधे दे द्वे सलिले, एवं च पोडशविजयेषु द्वात्रिंशत् नद्यः, षट् च निषधनीलवकुण्डनिर्गतद्वादशान्तर्गताः एवं च अष्टत्रिंशत् । तासु च प्रत्येकं चतुर्दशसहस्रपरिवारः । एवं च सर्वाः सम्मील्य पञ्चलक्षद्वात्रिंशत्सहत्री नदीनां सीतायां अच्छते ।
__ अथाष्टत्रिंशन्नद्यश्चतुर्दशसहस्रगुणिताः कियत्सङ्ख्याका भवन्ति इति तां सख्यां जम्बूद्वीपसर्वनदीसडख्यां च दिदर्शायेषुराह भगवान् हरिभद्रभिः ।
सीयासीयोयाविय बत्तीससहस्स पंचलक्खेहिं ।
सव्वे चउदसलक्खा छप्पनसहस्स मेलविया ॥२५॥ सीयासीयोयत्ति सीतासीतोदे, अवियत्ति अपि च, बत्तीससहस्सपंचलक्खेहिति द्वात्रिंशत्सहनोत्तरपञ्चलक्षसङख्याभिजलधिं सङ्गच्छत इति शेषः सव्वेत्ति सर्वाः मेलवियत्ति मेलिता चउदसलक्खाछप्पनसहस्सत्ति षट्पञ्चाशतसहस्रोत्तर चतुर्दशलक्षसङ्ख्या भवन्तीति शेषः । इति पदगमनिका । अयं भावः । सीतासीतोदे तावत् पूर्वप्रतिपादितप्रकारेण प्रत्येकं पञ्चलक्षद्वात्रिंशत्सहस्रसङ्ख्याभिनंदीभिः समुद्रमभिगच्छतः । सर्वासां गङ्गासिन्ध्वादीनां परिवारे मिलिते चतुर्दशलक्षषट्पञ्चाशत्सहस्रसङ्ख्या नदीनां भवति-तथाहि भरतस्थगङ्गायाश्चतुर्दशसहस्रपरिवारः, भरतस्थसिन्ध्वाः चतुर्दशसहस्रपरिवार ऐश्वतस्थरक्ताया अपि तावान् परिवारः, ऐ(वतस्थरक्तावत्या आप तावान् । हिमवदस्थरोहिताया अष्टाविंशतिसहस्रपरिवारः, रोहितांशाया अपि तावान् । हिरण्यवत्स्थयोस्सुवर्णकुलारूप्यकुलयोस्तावन्तौ परिवारौ। हरिवर्षस्थहरिकान्तायाः षट्पञ्चाशत्सहस्रपरिवार: हरिसलिलाया अपि तावान् । रम्यकस्थनरकान्तानारीकान्तयोस्तावन्तौ परिवारौ विज्ञेयौ । विदेहस्थसीतायाः पञ्चलक्षद्वात्रिंशत्सहस्रपरिवारः, सीतोदाया अपि तावानेव परिवार: । ननु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org