________________
धर्मपरीक्षाकथा
३७७ परिभ्रमता महता कण्टेन मनुष्यत्वं प्राप्त जैनधर्मश्च। रात्रौ द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियमिश्रितान्नपानखाद्यलेह्यलक्षणं चतुर्विधाहारं भुक्त्वा नरकं गच्छेत् पुनः दुष्प्राप्यम् । कथमपि लब्धमपि रूपादिहीनं स्यात् । तदुक्तम्
विरूपो विकलाङ्गः स्यात् अल्यायू रोगपीडितः।
दुर्भगो दुष्कुलश्चैव नक्तभोजी सदा नरः॥ इति श्रुत्वा तयानस्तमितफलं दृष्टम् । सा प्राह । यो ऽनस्तमितं पालयति देवलोके सुरवरो भूत्वा तस्मावागत्यात्रेक्षवाक्वादिक्षत्रियवंशेषु वैश्यवंशेषु च उत्पद्य दिव्यभोगानुभवनं कृत्वा पश्चात्तपोनुष्ठानेन सर्वज्ञपदवीपूर्वकं सिद्धपदवीं गच्छति । तथा चोक्तम्
निजकुलैकमण्डनं त्रिजगदीशसंपवम् ।
भजति यः स्वभावतः त्यजति नक्तभोजनम् ।। इति श्रुत्वा चाण्डाल्यानस्तमितं गृहीतम् । तदनु गृहं गता। रात्रौ चाण्डालेन सहभोक्तुमाहूता। तयोक्तम् । मया रात्रावभुक्तिवतं गृहीतमिति न भुज्यते । तेन पुनराहूता। यदा कथमपि न भुङ्क्ते तदा छुरिकयात्मानं विदार्य मारिता सा। निदानेन थनवत्या गर्भमाश्रिता। नवमासावसाने नागश्री म पुत्री बभूव । सो ऽपि छरिकया आत्मानं विदार्य मृतः। तत्रैव श्वाजनि । तत्रापरः श्रीधरनामा वणिगाहारदाने रतः। स एकदा स्वभायां श्रियं त्वं दानं कुविति नियोज्य परतीरं गतः । अतस्तयाहारदानं निवार्य संचयः कृतः। गतेन श्रीधरेण सर्व ज्ञात्वा कूटलेखक्रिया कृता। पुरुषस्यैकस्य हस्ते तत्पत्रं दत्तम् । यदाहं श्रीश्चैकत्र तिष्ठावः तदा तव श्वशुरेण प्रस्थापितो ऽयं लेख इति भण त्वमिति । तथैव तेन दत्तो लेखो वाचितः श्रीधरेण । तव श्वशुरस्य महानिष्टं वर्तते । त्वया शीघ्रमागन्तव्यम् । नो चेन्न पश्यसि । तत् श्रुत्वा श्रीः दुःखिता बभूव । भणितं च तया। हे नाथ, त्वं क्रियाणकं सर्व गृहे सुविधानेन निधाय पश्चादागच्छ । अहं तावद्गच्छामि । गच्छेति प्रेषिता। गतायां तस्यां श्रीधरेण नागश्रीः परिणीता। श्रीगत्वा पितरं दृष्ट्वा आत्मीयं दुष्कृतं ज्ञात्वा स्थिता। कियत्सु दिवसेष्वागता। भर्तुः पादयोः पतिता। तेन च विभिन्नगृहे स्थापिता। कियत्सु वर्षेषु पुनः श्रेष्ठी जलयात्रां गतः। इतो नागश्रीः सातिशयं दानं ददाति । एकदा श्रिया भणिता। हे भगिनि स्थितेषु मुनिषु मामाह्वय। येनाहं पादस्थानिकादिकं स्फोटयित्वा पुण्यमुपार्जयामि । एवं भवत्विति । सा दिनं प्रत्याह्वयति । एकस्मिन् दिने नागश्रिया श्रियमाहूता । को ऽपि नास्तीत्युक्तं श्रुत्वाह्वातु गतः । तया तं दृष्ट्वा तस्योपरि कोपादतिशयेनोष्णं तैलं निक्षिप्तम् । शरणेनागत्य नागश्रीगृहद्वारे पतितः । तया तस्य पश्च नमस्कारा दत्ताः आहारदानं च। तत्फलेन स व्यन्तरदेवो जातः। इतः श्रेष्ठिना बहुद्रव्येण गच्छता दुर्वातेन जलयानपात्रे आवर्ते निक्षिप्तम् । तेन देवेनासनकम्पात ज्ञात्वागत्य जलयानपात्रं सुपथे निक्षिप्य प्रणम्योक्तम् । हे वणिगीश, तव गृहे यः कृष्णः श्वा स्थितः सोऽहम् । एवं विधानुष्ठाने जाते नागश्रिया दत्तपञ्चनमस्कारवानफलेनाहं देवो जातः। तस्यात्मस्वरूपं प्रतिपाद्य दिव्यवस्त्राभरणादिभिः पूजयित्वा तदनु दिव्याहारं दत्त्वा भणति स्म । इमं नागश्रियै प्रयच्छति । तदनु स्वलोकं गतः।
अतिसन्तुष्टः श्रेष्ठो सुखेनागतः। महोत्साहन राजानं दृष्टवान् । अनु सुखेन स्थितः। केनचिदुष्टेन श्रेष्ठिन्याः स्वकण्ठे निक्षिप्तं हारं दृष्टवा राज्ञः कथितम् । तया च राज्ञे भाषितम् । तेन च याचितः। श्रेष्ठिना दत्तः। राज्ञा च राज्य दत्तः। तया स्वकण्ठे निक्षिप्तः। तदनु सर्पो जातः । भीतया तया हा नष्टाहमित्युक्तः। तदनु राज्ञा श्रीधरो वृत्तान्तं पृष्टः। श्रुत्वा राज्ञोक्तम् ।
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org