________________
३७६
पावकीतिविरचता एवं भगिनीसंसर्गो ऽपि भवेत् ब्राह्मणानामेकपुरुषसंभवत्वात् ब्राह्मण्या इति । ततोऽपि ज्ञायते योनिरपि न ब्राह्मण इति । अन्यच्च । शूद्रा एव नमस्करणीया न च ब्राह्मणाः । कुतः। पादयोनं क्षरणात् । झानम् अपि न ब्राह्मणः। तस्य क्षत्रियादिष्वपि दर्शनात् । शौचाचारोऽपि न ब्राह्मणः । स्मृतेः प्रामाण्यात् ।
आरम्भे वर्तमानस्य ब्राह्मणस्य युधिष्ठिरः ।
हिंसकस्य कुतः शौचं मैथुनाभिरतस्य च ॥ इति वचनात् ज्ञायते शौचाचारोऽपि न ब्राह्मण इति । किं च तस्य साधारणत्वात् सर्वे ऽपि ब्राह्मणाः स्युः। तपो ब्राह्मणश्चेत् सिद्धसाधनम् । कुतः तपोमलत्वादिष्टार्थसिद्धेः। संस्कारोऽपि न ब्राह्मणः । गर्भाधानं मासे भवति । पुंसवनं चतुर्मासेषु, उत्पन्ने नवमे मासे जातकर्मादि प्रसिद्धम् । उत्तानं दशमे दिने नामकरणं प्रसिद्धम् । परिनिष्क्रमणं गृहाबहिनिष्कासनम् । आयुष्म वयः (?) मासे अन्नप्राशनं प्रसिद्धम्। चौलोपः मुण्डनम् । उपनयनं विदितम् । समावर्तनम् अध्ययनादि शिक्षा। पाणिग्रहणं प्रतीतम् । यज्ञो विदित एव । दहनं मृते सति शरीरप्रज्वलनम् । एतेषां षोडशसंस्काराणां साधारणत्वात् । तथा चोक्तम् ।
न शौचादिशरीरेण जातिजीवकुलेन च ।
तपसा ज्ञानयोन्या च संस्कारनं द्विजो भवेत् ॥ तस्मात्
ब्राह्मणो ब्रह्मचर्येण यथा शल्येन शाल्यिकः ।
अन्यथा नाममात्रं स्यात् इन्द्रगोपककोटवत् ॥ इति । ब्राह्मणजातेरभावात् कथं तन्मुखेन पितरस्तृप्यन्ति । अनेकात्मकत्वात् । व्यवधानाच्च । इति शतधा जित्वा प्रतिमाभासुरः स प्रविकसितमखकमलः मनोवेगः तिष्ठन् ब्राह्मणानां पुरतः पवनवेगेन भणितः । हे मित्र, तव प्रसादेन संसारसमुद्रस्तीर्णः । स मम त्वमेव परमबन्धुः । इदानीं जैनवतानि प्रयच्छ। तेनोक्तम् । अहमसमर्थः । मदीयो गुरुस्तिष्ठति उज्जयिन्याम् । तत्र गच्छाव इति कटककटिसूत्रकुण्डलाद्यलकृतौ निजवेषेण स्थिती खगौ द्विजादिभिर्भणितो। को युवामिति । ताभ्यां स्वस्वरूपं प्रतिपादितम् । तदनु तत्रत्यैद्विजादिभिः साधं समवसृति गतौ। जिनं दृष्ट्वा स्तुत्वोपविष्टौ। तदनु द्विजादिभिः कैश्चित्तपश्चरणं कैश्चिद् व्रतानि गृहीतानि । तदनु पवनवेगेन अष्टाङ्गविशिष्टसम्यक्त्वस्य पञ्चाणुव्रतानां त्रयाणां गुणवतानां चतुर्णा शिक्षावतानां एकादशश्रावकनिलयानां चतुर्णा ब्रह्मचर्याद्याश्रमाणां निःशङ्काद्यष्टकथानां पञ्च व्रतकथानां चतुर्विधश्रावकधर्मस्य तत्कथानां च स्वरूपं ज्ञात्वा नक्तभोजनविरामस्वरूपं तत्फलेनात्रैव केनचित् फलं च प्राप्तमिति पृष्टो मुनिः प्राह ।
अत्रैव भारते मेवाडदेशे मध्यचित्रकूटपुराधीशो नरेश्वरः । तन्मन्त्री श्रीपालः अधिगतसम्यग्दृष्टिः । तदङ्गना धनवती। सापि तथा। एवं सुखेन तिष्ठतोस्तयोरेकस्मिन् दिने ऽस्तमनवेलायां तद्गृहजागरिकचाण्डालपत्नी ग्रासार्थमागता । तस्मिन्नेवावसरे श्रेष्ठिपुत्रेणागत्य माता भोजनं याचिता। तयोक्तम् । पुत्र रात्रौ नोचितम् । महताग्रहेण याचिते ऽपि न दत्तम् । तदनु चाण्डालवनितया पृष्टा। स्वामिनि, किमित्यस्य भोजनं न दत्तम् । तयोक्तम् । अनेन संसारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org