________________
पावकीर्तिविरचिता
न निर्गतः इति कमलासनो ऽभूदिति विद्यते नो वा । तैरुक्तम्-सत्यं, विद्यते। तहि तद्भवतामसत्यमिति न प्रतिभासते, इदं तु तथा भासते इति कथं शोभते। इति निरुत्तरं जित्या मनोवेगे. नोक्तम्-तथापरापि कथा भवन्मते विद्यते।
कुरुजाङ्गलदेशे हस्तिनागपुरेशयुधिष्ठिरेण यज्ञं कारयितुं प्रारब्धम् । कथम् । 'अश्वमेधे हयं हन्यात् पौण्डरोके च दन्तिनम्।' इति वेदोक्नकोण । तथापि पुण्यं न लभते। पष्टेन केनचिन्नमित्तिकेनोक्तम्-असुराः फलं गृह्णन्ति, कथं निवार्यन्ते । लेनोक्तम्-ऋषिनाथः अगस्तिः पाताले तिष्ठति । स धरणेन्द्रेण सहानीय यज्ञमण्डपे उपदेशितश्चेन्न हरन्ति । कथमानीयते इति सचिन्तो राजा अर्जुनेन भणितः । मया आनीयते, प्रेषणं प्रयच्छ। इति दत्ते तस्मिन् अर्जुनो बाणेन भूमि विद्ध्वा तच्छुषिरेण पातालं प्रविश्य धरणेन्द्रेण युद्धं कृत्वा तं बद्ध्वा विमुच्य तत्पुत्रों नागदत्तां परिणीय अर्जुनः ऋषिनार्थ धरणेन्द्रेण दशकोटि बलेन सहानीतवान् । इति अस्ति नो वा । नास्तीति केन भण्यते । तस्य सूक्ष्मच्छिद्रेण प्रवेष्टुसुचितं, नावयोरिति कथं युक्तम् । तैरुकाम-- भअतु प्रवेशः। कथं तत्रावगाहः। तेनोक्तम्-अङ्गठपर्वमानोलोधधारिणागस्त्येन समुद्रः शोषितः । तदुदरे मकराकरस्यावगाहो भवति । नास्माकं कुण्डकाभ्यन्तर इति केषां बाचोयुक्तिरिति । स तथा जित्वोद्यानं गतवान् । मनोवेगो भणति स्म मित्राय । यदा ब्रह्मणा लोको विहितः क स्थित्वा विहितः। विष्णुना गिलिते तस्मिन् क्व शिक्षां याचितवान् । कातसीक्षेत्र स्थितम् इति विचारासहत्वादेतद्वि रुद्धम् । पवनवेगेन भगितम्-तहि लोकः कथमुत्पन्नः। स आह-"कालः सर्वज्ञनाथश्च जोवलोकस्तथागमः । अनादि-निधना ह्येते द्रव्यरूपेण संस्थिताः" इति लोको ऽनाद्यनिधनः। जोवादि-पदार्थाधिकरणभूतः समन्तादनन्तानन्ताकाशबहुमव्यप्रदेशस्थिततनुवातघनानिलघनोदधिनामभिर्वार्तेर्वेष्टितः। अधःसमचतुरस्त्रसप्तरज्जुविस्तृतः चतुर्दशरज्जूत्सेधवान् पूर्वापरदिग्विभागयोएनिविस्तारवान् । कथम् । पूर्वापरदिग्भागयोः समः । तन्मध्ये समचतुरस्रकरज्जुविस्तारेण चतुर्दशरज्जूत्सेधवली त्रसनाडिः । तन्मध्ये महामेरुः । तस्याधःस्थिता नरकाः सप्त । ते च के । रत्नप्रभा १ शर्कराप्रभा २ बालुकाप्रभा ३ पङ्कनमा ४ धूम्रप्रभा ५ तमःप्रना ६ महातमःप्रभा ७ श्चेति। मेरुपरिवृताः शुभनामानो द्वीपसमुद्राः। ते च के। जम्बूद्वीपः लवणसमुद्रः । धातकीखण्डद्वोपः कालोद कसमुद्रः । पुष्करद्वीपः पुष्करसमुद्रः। वारुणोद्वीपः वारुणीसमुद्रः । क्षीरद्वीपसमुद्रः। क्षौद्रद्वीपसमुद्रः । इत्यादि असंख्यात द्वीपसमुद्राः। द्विगुणद्विगुणविस्ताराः मेरोरुपरि स्वर्गाः। ते च सौधर्म १ ईशान २ सनत्कुमार ३ माहेन्द्र ४ ब्रह्म ५ ब्रह्मोत्तर ६ लोकान्त ७ काम्पिष्ट ८ शुक्र ९ महाशुक्र १० शतार ११ सहस्रार १२ आनत १३ प्रागत १४ आरुण १५ अच्युता १६ श्चेति षोडश स्वर्गाः । तेषामुपरि नव ग्रेवेषकाः । तेषामपरि नवानुदिशाः। तेषामुपरि विजय १ वैजयन्त २ जयन्त ३ अपराजित ४ सर्वार्थसिद्धि ५ श्वेति पञ्चानुतराः। तेकनपरि सिद्धक्षेत्रम् । इति लोकस्वरूपं विस्तारतः करणानुयोगाद् ज्ञातम्। इति वचनामृतसहस्रेण मित्राय लोकस्थिति प्रतिपाद्य ततोऽन्येयुः भौतिको भूत्वा दक्षिणगोपुरे तत्क्रमेणोपवेशने संभाषणे च जाते द्विजैः को गुरुः, कि कारणं तपसः इति पृष्टं तेनोक्तम्--जावयोर्गुरुर स्ति। गुरु विना कितपो ऽस्ति, कथ्यताम् । विभेमि। मा भैषोः । पितम्बरगृहोतस्य कथा कि न विधीयते। कथम् । पित्तवरगृहीतस्य मधुरं नाव भासते तथा युउनाकं सत्यमप्यस्मद्वचः इति । कथ्यते, यथोक्तं वितायते । कथय । आम्रस्य कथा न कि विधीयते ? कोदृशो सा। निगद्यते तेन । तथा हि।
अङ्गदेशे चम्पापुरे नृपशेखराय केनचिणिजा पलितवलिस्तम्भकारि आभ्रस्य बीजं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org