________________
285
ग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिङ्गभेदाभिहितं वस्तन्यदेव भवति, तद्यथा-पुष्यस्तारका नक्षत्रमेवं संख्याभिनं जलमापो वर्षा ऋतुः, साधनभेद स्वयं-एहि मन्ये रथेन यास्यसि, नहि यातस्ते पिता, अस्थायमर्थः-एवं त्वं मन्यसे यथाऽहं रथेन, यास्यामीत्यत्र मध्यमोत्तमपुरुषयोर्व्यत्ययः, उपग्रहस्तु परस्मैपदात्मनेपदयाळत्ययः, तद्यथा-तिष्ठति प्रतिष्ठते रमते उपरमती-18 त्यादि, कालभेदस्तु अनिष्टोमयाजी पुत्रोऽस्य भविता, अस्थायमर्थः-अग्निष्टोग्याजी अग्निष्टोमेनेष्टवान् , भूते णिनिः, भवितेति भविष्यदनद्यतने लुट्, तत्रायमर्थः-णिनिप्रत्ययो भवितेत्यस्य संबन्धाद्भूतकालता परित्यज्य भविष्यत्कालतां प्रतिपद्यते, तेनेदमुक्तं भवति-एवंभूतोऽस्य पुत्रो भविष्यति योऽनिष्टोमेन यक्ष्यति । तदेवंभूतं व्यवहारनयं शब्दनयो नेच्छति, लिङ्गाधभिन्नांस्तु पर्यायान् अनेकविषयखेनेच्छति, तद्यथा-घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमयर्थव्यञ्जनपर्यायोभयरूपस्य वस्तुनो व्यञ्जनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति । तथा पर्यायाणां नानार्थतया समभिरोहणात्समभिरूढो, न घयं घटादिपर्यायाराणामेकार्थतामिच्छति, तथाहि-घटनाद् घटः कुटनात्कुटः को भातीति कुम्भो, नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दा-11 रणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तंदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाश्र-18 यणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति । एवंभूताभिप्रायस्वयं-यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन्घटादिके वस्तुनि
तदैवासौ युवतिमस्तकारूढ उदकाचाहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापारः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानो 18नयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोनाश्रयणान्मिथ्यादृष्टिः, रसावल्यवयवे पद्यरागादौ कृतरनावलीव्यपदेशपुसूत्रकृ. २18 रुषवदिति । तदेवं सर्वेऽपि नयाः प्रत्येक मिथ्यारष्टयोऽन्योन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति । अत्र च ज्ञानक्रियाभ्यां मोक्ष इतिप्रकृताङ्ग कृखा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः । तत्रापि ज्ञाननय ऐहिकामुष्मिकयोनिमेव फलसाधकत्वेनेच्छति। श्रुतस्क- न क्रियां, क्रियानयस्तु क्रियाभेव न ज्ञानं, परमार्थस्तूमयमपि समुदितमन्योऽन्यसव्यपेक्षं पंग्वन्धवदभिप्रेतकलसिद्धयेऽलमिति र वे शीला- एतदुभययुक्त एव साधुरभिप्रेतमर्थ साधयति, उक्तं च-"सन्वेसिपि णयाणं बहुविहवत्तव्यं णिसामेत्ता ॥ तं सवणयविसुद्धं | यावृत्तिः
चरणगुणहिओ साहू ॥१॥" समाप्तमिदं नालन्दाख्यं सप्तममध्ययनम् ॥ इति समाप्तेयं सूत्रकृतद्वितीयाङ्गस्य टीका । कृता चेयं शीलाचार्येण वाहरिगणिसहायेन ॥ यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेनापेततमस्को भव्यः कल्याणभाग भवतु ॥१॥ ग्रंथानं (१२८५०)॥ १ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । तत् सर्वनयसंमतं यत् चरणगुणस्थितः साधुः ॥१॥
सज्ञानवनि परस्परामातीतिसमभिरोमा
नार
सन्दीयाध्य.
Sasaraorae
1४२७॥
- » ờớeeeeeeeợc
इति श्रीमच्छीलाङ्काचार्यविरचितविवृतियुते श्रीसूत्रकृताङ्गे द्वितीयः श्रुतस्कन्धः समाप्तः
__ समाप्तं च द्वितीयमङ्गमेवम् ॥
॥४२७॥
a dasraeraorce
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org