________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शोला
कीयाकृतिः
॥३९४॥
263
| सोऽनिष्टमपि स्वपरात्मनोर्निरर्थकमपि कृत्यं कुवत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कथं स्वपरात्मनोर्निरुपकारकमेवं कुर्यात्, तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचितकारी, न परानुरोधाभावि गौरवाद्धर्मदेशना - | दिकं विधत्ते अपितु यदि कस्यचिद्भव्य मन्त्रस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति नान्यथा, तथा न राजा| भियोगेनासां धर्मदेशनादौ कथञ्चित्प्रवर्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्कचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद्, यदिवाऽनुत्तरसु| गणां मनःपर्यायज्ञानिनां च द्रव्यमनमैव तन्निर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता - यदि वीतरागोऽसौ | किमिति धर्मकथां करोतीति चेदित्याशङ्कयाह- 'स्वकामकृत्येन' खेच्छाचारिकारितयाऽसावपि तीर्थकृनामकर्मणः क्षपणाय न यथाकथंचिद्, अतोऽसावग्लान: 'इह' अस्मिन्संसारे आर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनां तदुपकाराय धर्मदेशनां व्यागृणीयादसाविति ॥ १७ ॥ किंचान्यत्- 'गंते' त्यादि, स हि भगवान् परहितैकरतो गखापि विनेयासन्नमथवाऽप्यगला | यथा यथा भव्यसन्चोपकारो भवति तथा तथा भगवन्तोऽन्तो धर्मदेशनां विद्धति, उपकारे सति गत्वाऽपि कथयन्त्यसति तु स्थिता अपि न कथयन्तीत्यतो न तेपां रागद्वेपसंभव इति, केवलमाशुप्रज्ञ - सर्वज्ञः 'समतया' समदृष्टितया चक्रवर्तिद्रमकादिषु पृष्टोऽपृष्टो वा धर्म व्यागृणीयात् 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ' इति वचनादित्यतो न रागद्वेप सद्भावस्तस्येति । यत्पु| नरनार्यदेशमसौ न व्रजति तत्रेदमाह-अनार्याः क्षेत्रभाषाकर्मभिर्वहिष्कृता दर्शनतोऽपि परि-समन्तादिताः - गताः प्रभ्रष्टा इतियावत् । तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति । यदिवा - अविपरीतदर्शनाः- साम्प्रतक्षिणो दीर्घदर्शनिनो न भवन्त्यनार्याः शकयत्रनादयः, ते हि वर्तमानमुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकमङ्गीकुर्वन्त्यतः सद्धर्मपराचुखेषु तेषु भगवान्न याति न पुनस्तद्वेषादिबुद्धयेति । यदप्युच्यते त्वया - ' यथाऽनेकशास्त्र विशारदगुडिकासिद्धविद्या सिद्धादितीर्थिकपराभवभयेन न तत्समाजे गच्छतीत्येतदपि बालप्रलपितप्रायं यतः सर्वज्ञस्य भगवतः समस्तैरपि प्रावादुर्मुखमप्यवलोकयितुं न शक्यते वादस्तु दूरोत्सादित एवेत्यतः कुतस्तत्पराभवः १, भगवांस्तु केवलालोकेन यत्रैव खपरोपकारं पश्यति तत्रैव गत्वाऽपि धर्मदेशनां विधत्त इति ॥ १८ ॥ पुनरन्येन प्रकारेण गोशालक आह
जहा वणिए उदयट्ठी, आयस्स हेडं पगरेति संगं । तऊवमे समणे नायपुते, इथेय में होति मती विपक्का ।। १९ ।। नवं न कुजा विहुणे पुराणं, चिचाऽमई ताइ य साह एवं । एतो वया यंभवतित्ति वुत्ता, तस्सोदही समणेति ॥ २० ॥ समारभते वणिया भूयगामं, परिग्गहं चेव ममायमाणा । ते णातिसंजोगमविहाय, आयस्स हेडं पगरंति संगं ॥ २१ ॥ विसेमिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति ॥ वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ||२२|| आरंभगं चेव परिग्गहं च, अविउस्सिया पिस्सिय आयदंडा । नेसिं च मे उदय जं वयासी, चउरंतणंताय दुहाय णेह ॥ २३॥ णेगंत णवंतिम ओदए पो, वयंति ते दो विगुणोदयंमि । से उदय सातिमर्णतपसे, तमुदयं साहयइ ताइ गाई ॥ २४ ॥ अहिंसयं पाणकंपी, धम्मे ठियं कम्मविवेग हेउं । तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं ॥ २५ ॥
यथा वणिक् कश्चिद् ‘उदयार्थी' लाभार्थी 'पण्यं' व्यवहारयोग्यं भाण्डं कर्पूरागरुकस्तूरिकाम्बरादिकं गृहीखा देशान्तरं गला विक्रीणाति, तथा 'आयस्स' लाभस्य 'हेतोः' कारणान्महाजनसङ्गं विधत्ते, तदुपमोऽयमपि भवत्तीर्थकरः श्रमणो ज्ञातपुत्र इत्येवं 'मे' मम मतिर्भवति, वितक-मीमांसा वेति ॥ १९ ॥ एवमुक्ते गोशालकेनार्द्रक आह- 'नवं न कुज्जा' इत्यादि, योऽयं भवता दृष्टान्त प्रदर्शितः स किं सर्वसाधर्म्येणोत देशतः ?, यदि देशतस्ततो न नः क्षतिमावहति, यतो वणिग्वत् यत्रैवोपचयं पश्यति तत्रैव क्रियां व्यापारयति न यथाकथञ्चिदित्येतावता साधर्म्यमस्त्येव, अथ सर्वसाधर्म्येण तन युज्यते, यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो 'नवं' प्रत्यग्रं कर्म न कुर्यात्, तथा 'विधूनयति' अपनयति पुरातनं यद्भवोपग्राहि कर्म बद्धं, तथा त्यक्त्वा 'अमनिं' विमतिं 'त्रयी' भगवान् सर्वस्य परित्राणशीलो, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः, तायी वा मोक्षं प्रति, अयवयमयपयचयतयणय गतावित्यस्य रूपं, स एव भगवानवाह – यथा विमतिपरित्यागेन मोक्षगमनशीलो भवती| त्येतावता च संदर्भेण ब्रह्मणो - मोक्षस्य व्रतं ब्रह्मत्रतमित्येतदुक्तं, तस्मिंयोक्ते तदर्थे चानुष्ठाने क्रियमाणे तस्पोदयस्यार्थीलाभार्थी श्रमण इति ब्रवीम्यहमिति ॥ २० ॥ न चैवंभूता वणिज इत्येतदार्द्रककुमारो दर्शयितुमाह-ते हि वणिजश्वतुर्दशप्रकारमपि 'भूतग्रामं' जन्तुसमूहं 'समारभन्ते' तदुपमर्दिकाः क्रियाः प्रवर्त्तयन्ति क्रयविक्रयार्थं शकटयानवाहनोट्रमण्डलिकादिभिरनुष्ठानैरिति, तथा 'परिग्रह' द्विपदचतुष्पदधनधान्यादिकं 'ममीकुर्वन्ति' ममेदमित्येवं व्यवस्थापयन्ति, ते हि वणिजो 'ज्ञातिभिः' स्वजनैः सह यः संयोगस्तम् 'अविमहाय' अपरित्यज्य 'आयस्य' लाभस्य 'हेलो' निमित्तादपरेण सार्द्ध 'सङ्ग' संबन्धं कुर्वन्ति । भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्य तस्वजनपक्षः सर्वत्राप्रतिवद्धो धर्माऽऽयमन्वेषयन् गवापि
Jain Education International
For Private Personal Use Only
६ आर्द्रका
ध्ययन.
॥ ३९४॥
www.jainelibrary.org