________________
*
१८+RNA५२.५
॥ अहम् ॥
श्रासुधर्मस्वामिविरचितं। श्रीश्रुतकेवलिभद्रबाहुस्वामिदृब्धनियुक्तियुतं । श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं ।
श्रीआचाराङ्गसूत्रम्।
अध्ययन
उद्देशकः१
ॐ नमः सर्वज्ञाय ॥ जयति समस्तवस्तुपर्याय विचारापास्ततीर्थक, विहितैकैकतीर्थनयवादसमूहवशात्प्रतिष्ठितम् । बहुविधभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः॥१॥ (स्कन्दकच्छन्दः) आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः। तथैव किश्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता
गिरः ॥२॥ शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थ गृह्णाम्यहमञ्जसा सारम ॥३॥ श्रीआचा- इह हि रागद्वेषमोहाभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय राङ्गवृत्तिः हेयोपादेयपदार्थपरिज्ञाने यतो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताशेषातिशयकलापाप्तोपदेश(शी०) मन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात्, स चाहत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, स
च चतुर्धा, तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात् , तदुक्तम्-चरणपडिवत्तिहेर्ड जेणियरे तिण्णि अणुओग"त्ति, तथा "चरणपडिवत्तिहेउं धम्मकहाकालदिक्खमादीया । दविए दसणसोही दंसणसुद्धस्स चरणं तु ॥१॥" गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम्"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, कापि यान्ति विनायकाः॥ १ ॥" तस्मादशेषप्रत्यू
होपशमनाय मङ्गलमभिधेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं 'सुर्य मे आउसंतेणं भगवया एवमक्खाय'मिदत्यादि, अत्र च भगवद्वचनानुवादो मङ्गलम् , अथवा श्रुतमिति श्रुतज्ञानं, तच्च नन्वन्तःपातित्वान्मङ्गलमिति, एतच्चा
विघ्नेनाभिलषितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपश्चमोद्देशकसूत्रं 'से.जहा. केवि हरए पडिपुण्णे | चिट्ठइ समंसि भोम्मे उवसन्तरए सारक्खमाणे इत्यादि, अत्र च इदगुणैराचार्यगुणोत्कीर्तनम् , आचार्याश्च पश्चनमस्का| चरणप्रतिपत्तिहेतवो येनेतरे त्रयोऽनुयोगाः । चरणप्रतिपत्तिहेतवो धर्मकथाकालदीक्षादिकाः । द्रव्ये दर्शनशुद्धिर्दर्शनशुद्धस्य वरणं तु ॥१॥ रान्तःपातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरीकरणाथेम्, अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम् 'अभिनिव्वुडे अमाई आवकहाए भगवं समियासी' अत्राभिनिवृतग्रहणं संसारमहातरुकन्दोच्छेबाईविप्रतिपया ध्यानकारि
स्वान्मङ्गलमिति, एतच्च शिष्यप्रशियसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादेनैनवाध्ययनानामपि मङ्गदलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गल, ज्ञानरूपत्वात् , ज्ञानस्य च निर्जरार्थत्वात्, निर्जरार्थत्वेन च
तस्याविप्रतिपत्तिः, यदुक्तम्-"जं अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ उस्सासमित्तेणं ॥१॥" मङ्गलशब्दनिरुक्तं च मां गालयत्यपनयति भवादिति मङ्गलं, मा भूद्गलो विघ्नो गालो वा नाशः शास्त्रस्वेति मङ्गलमित्यादि, शेषं त्वाक्षेपपरिहारादिकमन्यतोत्रसेयमिति । __ साम्प्रतमाचारानुयोगः प्रारभ्यते-आचारस्यानुयोगः-अर्थकथनमाचारानुयोगः, सूत्रादनु-पश्चादर्थस्य योगोऽनुयोगः, ४ सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्वा लघीयसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः, स चामीभिद्वारैरनुग-४
न्तव्यः, तद्यथा-निक्खेवेगहनिरुत्तिविहिपवित्ती य केण वा कस्स । तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो ॥ १ ॥ तत्र निक्षेपो-नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतहातिरिक्तोऽनेकधा, द्रव्येण-सेटिकादिना द्रन्यस्य-आत्मपरमाण्यादेर्द्रव्येनिषद्यादौ वा अनुयोगो द्रव्यानुयोगः, क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः क्षेत्रानुयोगः, एवं कालेन कालस्य
* प्रतिशिष्येति प्र. १ यदज्ञानी कर्म क्षपयति बटुकाभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिप्तः क्षपयत्युच्छ्वासमात्रेण ॥१॥
%A4%AAAAAAAAAKAARAKHARA
SARKARMANANAGAR
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org