________________
227
अश
दीहमद्धं चाउरंतसंसारकतारं भुजो भुज्जो णो अणुपरियहिस्संति, ते सिजिझस्संति जाव सचदुक्खाणं अंतं करिस्संति ॥ (सूत्रं ४१)॥ प्रवदनशीलाः प्रावादुकाः 'सर्वेऽपि ते विषष्ट्युत्तरत्रिशतपरिमाणा अपि आदिकरा यथावं धर्माणां, येऽपि च तच्छिष्यास्तेऽपि सर्वे नाना-भिमा प्रज्ञा-ज्ञानं येषां ते नानाप्रज्ञाः, आदिकरा इत्यनेनेदमाह-खरुचिविरचितास्ते न खनादिप्रवाहायाताः, ननु चाहतानामपि आदिलविशेषणमस्त्येव, सत्यमस्ति, किंतु अनादिहेतुपरम्परेत्यनादिखमेव, तेषां च सर्वज्ञप्रणीतागमानाश्रयणानि| बन्धनाभावः तदभावाच्च भिन्न परिज्ञानम् , अत एव नानाछन्दाः, छन्दः-अभिप्रायः, भिन्नाभिप्राया इत्यर्थः, तथाहि-उत्पादव्य
यध्रौव्यात्मके वस्तुनि सांख्यैरेकान्तेनाविर्भावतिरोभावाश्रयणादन्वयिनमेव पदार्थ सत्यखेनाश्रित्य नित्यपक्षं (ते) समाश्रिताः, तथा | शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिनेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञाप्रत्ययः सदृशापरापरोत्पत्तिविप्रलब्धानां भवती
त्येतत्पक्षसमाश्रयणादनित्यपक्षं समाश्रिता इति । तथा नैयायिकवैशेषिकाः केषाश्चिदाकाशपरमाण्वात्मादीनामेकान्तेन नित्यख| मेव कार्यद्रव्याणां च घटपटादीनामेकान्तेनानित्यखमेवाश्रिताः । एवमनया दिशाऽन्येऽपि मीमांसकतापसादयोऽभ्यूह्या इति । तथा ते तीर्थंका नाना शीलं येषां ते तथा, शीलं-व्रतविशेषः, स च भिमस्तेषामनुभवसिद्ध एव । तथा नाना दृष्टिः-दर्शनं येषां ते तथा, तथा नाना रुचिर्येषां दे नानारुचयः, तथा नानारूपमध्यवसानम्-अन्तःकरणप्रवृत्तिर्येषां ते तथा, इदमुक्तं | भवति-अहिंसात्र प्रधानं धर्माङ्ग, सा च तेषां नानाभिप्रायखादविकलखेन न व्यवस्थिता । तस्या एव सूत्रकारः
प्राधान्य दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिबन्धमाधाय तिष्ठन्ति, तेषां | सूत्रकृताङ्गे चैवं व्यवस्थितानामेकः कश्चित्पुरुषस्तेषां संवित्यर्थ ज्वलतामङ्गाराणां प्रतिपूर्णा पात्रीम्-अयोमयं भाजनमयोमयेनैव २ क्रिया२ श्रुतस्क- संदंशकेन गृहीखा तेषां ढौकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः! पूर्वोक्तविशेषणविशिष्टा इदमझारभृतं स्थानाध्यक न्धे शीला- भाजनमेकैकं मुहूर्त प्रत्येक विभृत यूयं, न चेदं (ह) संदंशकं सांसारिकं नापि चानिस्तम्भनं विदध्युः नापि च साधर्मिकाऽभ्यधार्मिकाणाकीयावृतिः
मनिदाहोपशमादिनोपकारं कुर्युरिति, 'ऋजवो मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुयुः, ततोऽसौ पुरुषः ॥३४॥
तद्भाजनं पाणौ समर्पयति, तेऽपि च दाहशङ्कया हस् सङ्कोचयेयुरिति, ततोऽसौ तानुवाच-किमिति पाणिं प्रतिसंहरत यूयं ?, एवमभिहितास्ते ऊचुः-दाहभयादिति, एतदुक्तं भवति-अवश्यममिदाहभयान कश्चिदम्यभिमुखं पाणिं ददातीत्येतत्परोऽयं, दृष्टान्तः । पाणिना दग्धेनापि किं भवतां भविष्यतीति ?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेव मति सर्वेऽपि जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् 'आत्मतुलया' आत्मौपम्येन यथा मम नाभिमतं दुःख-18 मित्यवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाश्रयणीया, 'तदेतत्प्रमाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति । तदेतत् समवसरणं-स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्मः, इत्येवं व्यवस्थिते तत्र ये केचनावि-12 दिनपरमार्थाः श्रमणब्राह्मणादयः 'एवं' वक्ष्यमाणमाचक्षते परेषामात्मदायोत्पादनायैवं भाषन्ते तथैवमेव धर्म 'प्रज्ञापयन्ति' व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्म 'प्ररूपयन्ति' व्याचक्षते, तद्यथा-'सर्वे प्राणा' इत्यादि, | ॥३४०॥ यावद्धन्तच्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिणाद्या विशिष्टकाले श्राद्धादौ रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं बस्तादय इवेत्येवं ये श्रमणादयःप्राणिनामुपतापकारिणी भाषां भाषन्ते (ते) आगामिनि कालेज्नेकशो बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावधभाषिणो भविष्यति काले जातिजरामरणानि बहूनि प्राप्नुवन्ति । योन्यां जन्म योनिजन्म तदनेकशो गर्भव्युत्क्रान्तजावस्थायां प्राप्नुवन्ति, तथा संसारप्रपश्चान्तर्गतास्तेजोवायुषूच्चैर्गोत्रो| दूलनेन कलङ्कलीभावभाजो भवन्ति बहुशो भविष्यन्ति च, तथा ते बहूनां दण्डादीनां शारीराणां दुःखानामात्मानं भाजनं
कुर्वन्ति, तथा ते निर्विवेका मातृवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिःखदौर्मनस्यानामाभा&गिनो भविष्यन्तीति । किंबहुनोक्तेन ?, उपसंहारव्याजेन गुरुतरमनर्थसंबन्धं दर्शयितुमाह-'अणादियं' इत्यादि, नास्यादि-18
रस्तीत्यनादिः-संसारः, तदनेनेदमुक्तं भवति-यत्कैश्चिदभिहितं यथाज्यमण्डकादिक्रमेणोत्पादित इत्येतदपातं, न विद्यतेऽवद
-पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त इत्यर्थः, तदनेनेदमुक्तं भवति-यदुक्तं कैश्चिद्यथा प्रलयकालेऽशेषसागरजलप्लावनं द्वादशा-18 रादित्योद्गमेन चात्यन्तदाह इत्यादिकं सर्व मिथ्येति, 'दीर्घ मित्यनन्तपुद्गलपरावर्तरूपकालावस्थानं, तथा चत्वारोऽन्ता-गतयो यस्य स तथा, चातुर्गतिक इत्यर्थः, तत्संसार एव कान्तारः संसारकान्तारो, निर्जलः समयस्त्राणरहितोऽरण्यप्रदेशः कान्तार इति । तदेवंभूतं 'भूयो भूयः' पौनःपुन्येनानुपरिवर्तिष्यन्ते-अरहघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति, अत एवाह-यतस्ते | प्राणिनां हन्तारः, कुत एतदिति चेत्सावद्योपदेशाद् , एतदपि कथमिति चेदन्ततः औदेशिकादिपरिभोगानुज्ञयेत्येवमवगन्तव्यमित्यतस्ते कुप्रावचनिका नैव सेत्स्यन्ति-नैव ते लोकाग्रस्थानमाक्रमिष्यन्ति, तथा न ते सर्वपदार्थान् केवलज्ञानावाप्या भोत्स्यन्ते, | अनेन ज्ञानातिशयाभावमाह, तथा न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते, अनेनाप्यसिद्धेरकैवल्यावाप्तेश्च कारणमाह, तथा परिनिर्वृतिः ॥ | परिनिर्वाण-आनन्दसुखावाप्तिस्तां ते नैव प्राप्स्यन्ते, अनेनापि सुखातिशयाभावः प्रदर्शितो भवतीति, तथा नैते शारीरमानसाना
Saenaya9839999092002020
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org