________________
225
अचियत्तः-अनभिमतोऽन्तःपुरप्रवेशवत्परगृहद्वारप्रवेशोऽन्यतीथिंकप्रवेशो येपां ते तथा, अनवरतं श्रमणानुयुक्तविहारिणो निम्रन्थान् प्रासुकेनपणीयेनाशनादिना तथा पीठफलकशय्यासंस्तारकादिना च प्रतिलाभयंतः तथा बहूनि वर्षाणि शीलवतगुणव्रतप्रत्याख्यानपौषधोपवासैरात्मानं भावयन्तस्तिष्ठन्ति ॥ तदेवं ते परमश्रावकाः प्रभूतकालमणुव्रतगुणवतशिक्षाव्रतानुष्ठायिनः साधूनामोपधवस्त्रपात्रादिनोपकारिणः सन्तो यथोक्तं यथाशक्ति सदनुष्टानं विधायोत्पन्ने वा कारणेऽनुत्पन्ने वा भक्तं प्रत्याख्यायालोचितप्रतिक्रान्ताः सनाधिप्राप्ताः सन्तः कालमासे कालं कृखाऽन्यतरेषु देवेपूत्पद्यन्त इति । एतानि चाभिगतजीवाजीवादिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि, तद्यथा-यसाद भिगतजीवाजीवास्तस्मादुपलब्धपुण्यपापाः, यसादुपलब्धपुण्यपापास्त-12 स्मादुच्छ्रितमनसः, एवमुत्तरत्रापि एकैकं पदं त्यजद्भिरकैकं चोत्तरं गृहद्भिर्वाच्यं, ते च परेण पृष्टा अपृष्टा वा एतदूचुः, तद्यथाअयमेव मौनीन्द्रोक्तो मार्गः सदर्थः शेषस्वनों, यमादेवं प्रतिपद्यन्ते तस्मात्ते समुच्छ्रितमनसः सन्तः साधुधर्म श्रावकधर्म च प्रकाशयन्तो विशेषेणैकादशोपासकप्रतिमाः स्पृशन्तो विहरन्तोऽष्टमीचतुर्दश्यादिषु पौषधोपवासादौ साधून प्रासुकेन प्रतिलाभ-15 यन्ति, पाश्चात्ये च काले संलिखित कायाः संस्तारकश्रमण भावं प्रतिपद्य भक्तं प्रत्याख्यायायुषः क्षये देवेषूत्पद्यन्ते । ततोऽपि च्युताः सुमानुपभावं प्रतिपद्य तेनैव भवेनोत्कृष्टतः सप्तस्वष्टसु वा भवेषु सिध्यन्तीति । तदेतत्स्थानं कल्याणपरम्परया सुखविपाकमितिकृखाऽऽयमिति । अयं विभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याख्यात इति ॥ उक्ता धार्मिकाः, अधार्मिकास्तदुभयरू-10
| पाश्चाभिहिताः, साम्प्रतमेतदेव स्थानत्रिकमुपसंहारद्वारेण संक्षेपतो विभणिपुराह-येयमविरतिः-असंयमरूपा सम्यक्त्वाभावासूत्रक. ५७
न्मिध्यादृष्टेद्रव्यतो विरतिरप्यविरतिरेव तां प्रतीत्य-आश्रित्य बालवद्वाल:-अज्ञः सदसद्विवेकविकलखात् इत्येवम् 'आधीयते' सूत्रकृताओं व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च 'प्रतीत्य' आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो वेत्येवमाधीयते आख्यायते वा, २ क्रिया२ श्रुतस्क- | तथा विरताविरति चाश्रित्य बालपण्डित इत्येतत्प्राग्वदायोज्यमिति । किमित्यविरति (विरताविरति) विरत्याश्रेयण (बाल) बाल-11 स्थानाध्य० न्धे शीला- पाण्डित्यपाण्डित्यापत्तिरित्याशङ्कयाह-'तत्थ ण' मित्यादि, 'तत्र' पूर्वोक्तेषु स्थानेषु येयं 'सर्वात्मना' सर्वसात् 'अविरतिः' कीयावृत्तिः
विरतिपरिणामाभावः एतत्स्थानं सावद्यारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यकार्याणि क्रियन्ते, यत एवमत एतदनार्य स्थान नि:॥३३७॥
शूकतया यत्किञ्चनकारिखाद्यावदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिथ्यारूपोऽसाधुरिति । तत्र च येयं 'विरतिः सम्यक्त्वपूर्विका सावद्यारम्भानिवृत्तिः सा स्थगितद्वारखात् पापानुपादानरूपेति, एतदेवाह-तदेतत्स्थानम् अनारम्भस्थान-सावद्यानुष्ठानरहितखासंयमस्थानं, तथा चैतत्स्थानमार्यस्थानम्-आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य तथा सर्वदुःखप्रक्षीणमार्गः-अशेपकर्मक्षयपथ इति, तथैकान्तसम्यग्भूतः, एतदेवाह-'साधु रिति, साधुभूतानुष्ठानात्साधुरिति । तत्र च येयं (विरता) विरतिरभिधीयते सैपा मिश्रस्थानभूता, तदेतदारम्भानारम्भरूपस्थानम् , एतदपि कथञ्चिदार्यमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गः, तथैकान्तसम्पग्भूतः साधु-18 चेति । तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणाभिहितः पक्षत्रयसमाश्रयणेन ॥ साम्प्रतमसावपि मिश्रपक्षो धर्माधर्मसमाश्रयणनानयोरन्तर्वती भवतीति दर्शयतिएवमेव समणुगम्ममाणा इमेहिं चव दोहिं ठाणेहिं समोअरंति, तंजहा-धम्मे चेय अधम्मे चेव उवसंते
॥३३७॥ चब अणुवसंते चंव, तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाई तिन्नि तेचट्टाई पावादयसयाई भवंतीति मक्खायाई (यं), तंजहा-किरियावाईणं अकिरियावाईणं अन्नाणियवाईणं वेणइयवाईणं, तेऽवि परिनिवाणमाहंसु, तेऽवि मोक्खमाइंसु तेऽवि लवंति, सावगा! तेऽवि लवंति सावइत्तारो ॥ सूत्रम् ४०॥
'एवमेव' संक्षेपेण 'सम्यगनुगम्यमाना' व्याख्यायमानाः सम्यगनुगृह्यमाणाः 'अनयोरेव' धर्माधर्मस्थानयोरनुपतन्ति । |किमिति ?, यतो यदुपशान्तस्थानं तद्धर्मपक्षस्थानमनुपशान्तस्थानमधर्मपक्षस्थानमिति । तत्र च यदधर्मपाक्षिकं प्रथम स्थानं तत्रा-2 मूनि त्रीणि त्रिपथ्यधिकानि प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचारिति । एतानि च सामान्येन दर्शयितुमाह
'जहे'त्यादि, तद्यथेत्युपदर्शनार्थः क्रियां-ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनखेन वदितुं शीलं येषां ते क्रियावादिनः, 18 ते च दीक्षात एव मोक्षं वदन्तीत्येवमादयो द्रष्टव्या इति, तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनखेन वदितुं शीलं 18 येषां ते तथा तेषामिति, अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषां, तथा विनय एव परलोकसा
धने प्रधान कारणं येषां ते तथा तेषामिति । अत्र च सर्वत्र षष्ठीबहुवचनेनेदमाह, तद्यथा-क्रियावादिनामशीत्युत्तरं शतं अक्रियावादिनां चतुरशीतिरज्ञानिकानां सप्तपष्टिनयिकानां द्वात्रिंशदिति । तत्र च सर्वेऽप्येते मौलास्तच्छिष्याश्च प्रवदनशीलखात्यावादुकाः, तेषां च भेदसंख्यापरिज्ञानोपाय आचार एवाभिहित इति नेह प्रतन्यते । ते सर्वेऽप्यार्हता इव परिनिर्वाणम्-अशेषद्वन्द्वोपरमरूपमवर्णगन्धरसस्पर्शखभावमनुपचरितपरमार्थस्थानं ब्रह्मपदाख्यमबाधात्मकं परमानन्दसुखस्वरूपमाहुः उक्तवन्तः || | तथा तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः, पूर्वेण निरुपाधिकं कार्यमेव निर्वाणाख्यमुक्तम् , अनेन तु तदेव | कारणोपाधिकमित्ययं विशेषः । तत्र येषामप्यात्मा नास्ति ज्ञानसन्ततिवादिनां तेषामपि कर्मसंततेः संसारनिबन्धनताया विच्छे.
59999092020
aoraord200000
8092002020120
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org