________________
सूत्र कृ. ४७
सूत्रकृताङ्गे
२ श्रुतस्कन्धे शीला
ङ्कीयावृत्तिः
॥२७७॥
185
उवदंसेज्जा अयमाउसो ! तेल्लं अयं पिन्नाए, एवमेव जाव सरीरं । से जहाणामए केइ पुरिसे इक्खूतो खोतर अभिनित्ता णं उवदंसेज्जा अयमाउसो ! खोतरसे अयं छोए, एवमेव जाव सरीरं । से जहाणामए केइ पुरिसे अरणीतो अरिंग अभिनिवद्वित्ताणं उवदंसेजा अयमाउसो ! अरणी अयं अग्गी, एवमेव जाव सरीरं । एवं असंते असंविज्रमाणे जेसिं तं सुक्खायं भवति, तं० अन्नो जीवो अन्नं सरीरं । तम्हा ते मिच्छा ॥ से हंता तं हणह खणह छणह डहह पयह आलुपह विलुंपह सहसाकारेह विपरामुसह, एतावता जीवे णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं०--किरियाइ वा अकिरियाह वा सुक्कडे वा दुक्कडेइ वा कल्लाणेइ वा पावएइ वा साहुइ वा असाहुइ वा सिद्धीइ वा असिद्धीह वा निरएइ वा अनिरएइ वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवा कामभोगाई समारभंति भोयणाए ॥ एवं एगे पागविभया क्खिम्म मामगं धम्मं पन्नवेंति, तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुक्खाए समति वा माहति वा कामं खलु आउसो ! तुमं पूययामि, तंजहा - असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए समाउहिंसु तत्थेगे पूणाए निकाइंस || पुवमेव तेसिं णायं भवति - समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपस् परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिस्सामो समुहाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्नेवि आदियावेंति अन्नंपि आयतंतं समणुजाणंति, एवमेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना लद्धा रागदोसवसहा, ते णो अप्पाणं समुच्छेदेंति ते णो परं समुच्छेदेति ते णो अण्णाई पाणाई भूताइं जीवाई सत्ताई समुच्छेदेंति, पहीणा पुवसंजोगं आयरियं मग्गं असंपत्ता इति ते णो हवाए पारा अंतरा कामभोगेसु विसन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति आहिए ॥ सूत्रं ९ ॥ ‘इह' अस्मिन्मनुष्यलोके, खलुर्वाक्यालङ्कारे, इहास्मिन् लोके प्राच्यां प्रतीच्यां दक्षिणायामुदीच्यामन्यतरस्यां वा दिश 'सन्ति' विद्यन्ते एके केचन तथाविधा मनुष्याः आनुपूर्व्येणेमं लोकमाश्रित्योत्पन्ना भवन्ति । तानेवानुपूर्व्येण दर्शयति-'तद्यथे' त्युपन्यासार्थः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तत्र क्षेत्रार्या अर्धषड्विंशतिजनपदोत्पन्नाः, तद्व्यतिरिक्तास्वनार्या एके केचन भवन्ति, ते चानार्यक्षेत्रोत्पन्ना अभी द्रष्टव्याः, तद्यथा - सगजवणसबरबब्बर कायमुरुंडोडगोड्डपक्कणिया । अरबागहोणरोमय पारसखसखासिया चेव || १ || डोंबिलयलउसवोक्स भिल्लधपुलिंद कोंब भमररुया । कोंचा व चीणचंचुयमालव | दमिला कुलग्घा य || २ || केकयकिरायहमुहखरमुह तह तुरगमेंढयमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥ ॥ ३ ॥ पावा य चंडदंडा अणारिया णिग्विणा णिरणुकंपा | धम्मोत्ति अक्खराई जेण ण णअंति सुमिणेवि ॥ ४ ॥ इत्यादि । तथोत्रम् - इक्ष्वाकुवंशादिकं येषां ते तथाविधा एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा 'नीचैर्गोत्र' सर्वजनावगीतं येषां ते तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोच्चैर्गोत्रा नीचैर्गोत्रावा । कायो - महाकायः प्रांशुखं तद्विद्यते येषां ते कायवंतः, तथा 'हखवन्तो' वामनककुब्जवडभादय एके केचन तथाविधनामकर्मोदयवर्तिनः, तथा शोभनवर्णाः सुवर्णा: प्रतप्तचामीकरचारुदेहाः, तथा दुर्वर्णाः - कृष्णरूक्षादिवर्णा एके केचन, तथा सुरूपा:सुविभक्तावयव चारुदेहाः, तथा दुष्टरूपा दुरूपा बीभत्सदेहाः, तेषां चोच्चैर्गोत्रादिविशेषणविशिष्टानां महान् कश्विदेवैकस्तथाविधकर्मोदयाद्राजा भवति, स विशेष्यते - महाहिमवन्मलयभन्दर महेन्द्राणामिव सारः - सामर्थ्यं विभवो वा यस्य स तथा इत्येवं राजवर्णको यावदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति तत्र डिम्बः परानीकशृगालिको उमरं - स्वराष्ट्रक्षोभः, पर्यायौ वैतावत्यादरख्यापनार्थमुपात्तौ इति । तस्य चैवंविधगुण संपदुपेतस्य राज्ञ एवंविधा पर्षद्भव [ती]ति, तद्यथा - उग्रास्तत्कुमाराचोग्रपुत्राः, एवं भोग भोगपुत्रादयोऽपि द्रष्टव्याः, शेषं सुगमं यावत्तसेना पतिपुत्रा इति, णवरं 'लेच्छइ' त्ति लिप्सुकः स च वणिगादिः, तथा प्रशास्तारो - बुद्ध्युपजीविनो मन्त्रिप्रभृतयः, तेषां च मध्ये कश्विदेवैकः श्रद्धावान् धर्मलिप्सुर्भवति, 'काम' मित्यवधृतार्थेऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा 'संप्रधारितवन्तः' समालोचितवन्तो धर्मप्रतिबोधनिमित्तं तदन्तिकगमनाय तत्र चान्यतरेण धर्मेण - खसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं नाम संप्रधार्य - तं राजानं खकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गत्वैवमूचुः, तद्यथा - एतद्यथाऽहं कथयिष्यामि 'एव' मिति च वक्ष्यमाणनीत्या भवन्तो- यूयं जानीत भयात्रातारो वा 'यथा' येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति । एवं तीर्थिकः स्वदर्शनानुरञ्जितोऽन्यस्यापि राजादेः स्वाभिप्रायेणोपदेशं ददाति ॥ तत्राद्यः पुरुषजातस्तज्जीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे, तद्यथा- 'ऊर्ध्वम्' उपरि पादतलादधव केशाग्रमस्तकात्तिर्यक् च खरुपर्यन्तो जीवः, एतदुक्तं भवति-यदेवैतच्छरीरं स एव जीवो, नैतस्माच्छरीराद्व्यतिरिक्तोऽस्त्यात्मेत्यतस्तत्प्रमाण एव भवत्यसौ, इत्येवं च कृत्वैष आत्मा योऽयं कायोऽयमेव च तस्यात्मनः
१ राजान्तिकं प्र० । २ एतचाहं प्र० । ३ कथयामि प्र० ।
Jain Education International
For Private
Personal Use Only
१ पुण्डरी
काध्य० त जीवतच्छरीरवादी
॥२७७॥
www.jainelibrary.org